________________
२८०
काव्यमाला।
त्रिशलातनुजन्मशासनाभ्युदयं मूर्तमिव व्रतीश्वरम् ।
यतिभिस्तमजूहबद्गुरुस्त्रिदशीशंसितभाग्यवैभवम् ॥ १०७ ॥ गुरुर्विजयदानसूरिः साधुभिः उपाध्यायपण्डितादिमुनिभिः कृत्वा नं हीरहोंपाध्यायमजूहवत् आकारयामास । किंभूतं तम् । त्रिदश्या शासनदेवतया शंसित: श्राघितो भाग्यस्य सुकृतस्य पुण्योदयस्य वैभवः संपद् यस्य । इवोत्प्रेक्षते-मृत मूर्तिमन्तमङ्गीकृताङ्गं त्रिशलायाः सिद्धार्थपृथिवीपतिपत्न्यास्तनुजन्मनो नन्दनस्य श्रीमन्महा. वीरदेवस्य शासनस्य अभ्युदयमुन्नतिमिव ॥
गगनात्मरसेन्दुहायने विशदे पौषजपञ्चमीदिने। . धृतशीतरुचीरुचिच्छलोज्ज्वलवस्त्रे किमु तत्पदोत्सवे ॥ १०८ ॥ . व्रतिवारिधिनेमिवासवः स्वपदे स्थापितवान्स वाचकम् । . . इव पञ्चमकं गणाधिपं मृगराजध्वजतीर्थनायकः ॥ १०९ ॥ .
(युग्मम्) स विजयदाननामा वतिनां श्रमणानां वारिधिनेमेसुंधरायाः नायकः स्वामी । राजा इत्यर्थः । सूरिः तं हीरहर्षनामानं वाचकमुपाध्यायं खपदे निजपट्टे. स्थापितवान् सं. स्थापयामास । क इव । मृगराजध्वजतीर्थनायक इव यथा मृगराजः सिंहो ध्वजश्चिदं लाञ्छनं यस्य तादृशस्तीर्थनायकस्तीर्थेश्वर एतावता श्रीमहावीरजिनः पञ्चानां संख्यापूरण: पञ्चमः, पश्चम एव पश्चमकः, तं गणस्य साधुसमुदायरूपगच्छस्य नायकं स्वामिनं पश्चशतच्छात्रैः समं प्रव्रजितत्वात् । तद्यतिकरे पञ्चशतसाधूनां गणस्य नाथं गणधरं सुधर्मखामिनं स्वपदे स्थापयति स्म । कस्मिन्हायने । गगनमाकाशं शून्यम् (०), आत्मा क्षेत्रज्ञ एकः (१), रसास्तिक्तादयः षट् (६), इन्दुश्चन्द्रोऽप्येकः (१),तन्मित हायने वत्सरे विक्रमादित्याद्दशाधिकषोडशशत (१६१०) वर्षातिकमे । कुत्र दिवसे । पौषजपचमी दिने पौषमासे जाता या पश्चमी नाम्नी तिथिस्त दिवसे । किंभूते । विशदे शुक्के। उत्प्रेक्षतेतत्पदोत्सवे तस्य हीरहर्षोपाध्यायस्य पदस्याचार्यपदप्रदानस्य उत्सवे महामहे धृतं परिहितं शीतरुचीरुचिः चन्द्रचन्द्रिका तस्याश्छलेन कपटेन उज्ज्वलं धवलं वस्त्रं वसनं येन एवंविधे इव वासरे । शुक्लपश्चमीदिने इत्यर्थः ॥ संवत् १६१० वर्षे पौषमासे शुक्लपश्चमीवासरे श्रीहर्षवाचकस्य सूरिपदस्थापना ॥इति श्रीहीरविजयसूरेराचार्यपदस्थापना ॥
हृदि हीर इवैष विष्टपे विजयोऽस्यैव पुनर्भविष्यति ।
अत एव कृतास्य सूरिणा विजयाहा किमु हीरपूर्विका ॥ ११० ॥ यत्कारणादेष सूरिः हृदि अर्थाजगतां हृदये हीर इव वज्रमाणेरिव । जनभाषया. 'हीरो' । रहस्यं च भविष्यति । पुनरपरार्थे न्यासे विष्टपे विश्वे अस्यैव सूरेरेव जयो कुवादिवादेषु विजयो भविष्यति नान्यस्य । उत्प्रेक्ष्यते-अतः कारणात् सूरिणा वि.