SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ६ सर्गः] हीरसौभाग्यम् । २८१ जयदानगुरुणा अस्य हीरहर्षस्य हीर इति नाम पूर्व यस्याः सा होरपूर्विका विजयाह्वा विजय इत्याख्या कृता किमु । एतावता हीरविजयसूरिरित्यभिधानं निर्मितम् ॥ इदमेव दिनं जगत्पतेरभिषेकाहमितीव संमदात् । उदयादिमसिंहभूमिमानभिषिक्तात्र तदैव बाहुजैः ॥ १११ ॥ अत्र शिवपुर्या संमदादानन्दात् बाहुजैः राजन्यैः । 'तत्तस्मिन्विनिमज्ज्य बाहुजभटेरारम्भि रम्भा-' इति नैषधे । उत्प्रेक्ष्यते-इति हेतोस्तदैव तस्मिन्नवसरे उदय इति पदमादिमं पत्रं तादृशः सिंह एव भूमिमानृपः एतावता उदयसिंहराजा अभिषिक्त इव श्रीरोहिणीमण्डलराज्ये संस्थापितः । इति किम् । इदमेव दिनं यस्मिन् दिने श्रीहीरहर्षविजयसूरेराचार्यपदं प्रदत्तं तदेवं दिनं जगतां भूलोकस्य पत्युभर्तुश्चकवादेरभिषे. कस्य राज्यस्थापनाया अर्हमुचितं योग्यम् ॥ भुवि मङ्गलतूर्यनिखनो दिवि दिव्योऽजनि दुंदुभिध्वनिः । इति तौ किमु शंसतो गुरुर्न ऋतेऽस्मादपरोऽस्ति रोदसोः॥११२॥ भुवि पृथिव्यां मङ्गलानां भूयसां श्रेयसां सूचकानां तूर्याणां वादित्राणां निखनो निर्घोषः, तथा दिवि आकाशे दिव्यो देवतासंबन्धी दुंदुभीनां मदनभेरीणां निखानानां वा ध्वनिः शब्दः अजनि संजातः । उत्प्रेक्ष्यते-तौ द्वावपि शब्दो इत्यमुना प्रकारेण शंसतोऽर्थालोकानां पुरः कथयत इव । इति किम् । यत् रोदस्योर्यावापृथिव्योरस्मात् हीरविजयसूरेरपरोऽन्यो द्वितीयो कोऽपि असाधारणगुणगणो गुरुर्नास्ति ॥ पिकपञ्चमकूजितक्कणास्तमगायन्यणुकोदरीगणाः । अदसीययशोजिगासयोपगताः किंपुरुषाङ्गना इव ॥ ११३ ॥ . व्यणुकोदरीगणा कृशोदरीनारीनिवहाः । 'शृङ्गारसर्ग व्यणुकोदरीयम्' इति नैषधे । तदा तस्मिन् सूरिपदप्रदानसमये तमगायन् तद्गुणग्रामं गायन्ति स्म । किंभूताः । पि. कानां कोकिलानां पञ्चमकूजितं वसन्तसमयोनिद्रसान्द्रमाकन्दकलिकाखादनोद्घटितकण्ठकुहरप्रोखोलितपञ्चममधुरध्वनिस्तद्वन् क्वणो निनादो यासाम् । उत्प्रेक्ष्यते-अ. दसीयानां हीरविजयसंबन्धिनां यशसा कीर्तीनां जिगासया गातुमिच्छया उपगताः । खलोकालोके खस्थानाद्वा शिवपुर्या समागताः किंपुरुषाङ्गनाः किंनर्य इव ॥ इत्याचार्यपदमहोत्सवः॥ त्रिजगन्नयनामृताञ्जनं शुशुभाते यतिपुंगवावुभौ । सुरभीकृतभूतलौ यशःसुमनोभिर्मधुमाधवाविव ॥ ११४ ॥ उभौ द्वौ यतिपुंगवौ विजयदानहीरविजयसूरीन्द्री शुशुभाते शोभां लभेते स्म । किं. भूतौ । त्रिजगतां तात्स्थ्यात् तद्यपदेशत्वात् त्रिभुवनजनानां नयनेषु लोचनेषु आवादकत्वेन अमृताननं सुधाया अञ्जनतुल्यौ । पुनः किंभूतौ । यशोभिरेव. मुमनोभिर्वि
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy