________________
६ सर्गः
हीरसौभाग्यम् ।
जनरतिश्लाघनीयो मह उत्सवः पुरे शिवपुर्या आरभ्यत प्रारब्धः । किंवत् । विवाहवत् । यथा केनाप्यभिनानवता धनिना पाणिग्रहणावसरे संसारिजनातिप्रशस्यो महामहः प्रारभ्यते ॥
अथ शिल्पिचणैरचीकरन्ननुवादैरिव विश्वकर्मणः ।
मणिमण्डपमंशुडम्बराधरितादित्यममात्यमानवाः ॥ १०३ ॥ अथ मुहूर्तनिर्धारणमहोत्सवप्रारम्भणानन्तरं अमात्यमानवाः चाङ्गासंघपतिप्रधानसेवकजनाः शिल्पिचणैः प्रशस्यविज्ञानिभिर्मणीनां उपलक्षणात् काश्चनरत्नानां गणैः खचित मण्डपं जनाश्रयमचीकरत् कारयन्ति स्म । 'किंभूतं मणिमण्डपम् । अंशूनां किरणानामाडम्बरेण प्रतिदिशं अविरलातिप्रसरणेनाधरितो हीनीकृतस्तिरस्कृतो वा आदित्यो भास्करो येन । शिल्पिचणैरुत्प्रेक्षते-विश्वकर्मणो देवानां वर्द्धकेः सूत्रधारस्यानुवादैः प्रतिरूपैरिव । प्रशत्यार्थे चचवणौ शब्दो योज्याविति प्रक्रियायाम् ॥
मणिकल्पितशिल्पिकौतुकप्रकरालोकनलालसाशयाः ।
त्रिदशास्त्रिदशीसखा दिवः किमिहालेख्यमिषादुपागमन् ॥ १०४ ॥ इह मण्डपे आलेख्यानां चित्राणां मिषात् कपटादिवो देवलोकात् त्रिदशीसखाः खखदेवीसंयुक्ताः त्रिदशा निर्जरा उपागमन् किम् आगता इव । किंभूतानिदशाः । मणिभिः पञ्चविधरत्नैः कल्पितानां रचितानां शिल्पानां चित्ररूपादिविज्ञानानां प्र. करस्य समूहस्य - आलोकने दर्शने लालसा लोलुपा आशया अभिप्राया मानसानि वा येषां ते.॥
स मुहूर्तदिने गुरुः समं मुनिभिर्मण्डपमध्यमीयिवान् ।
सदसः सदनं धुसद्मभिः प्रतिपन्थी पृथिवीभृतामिव ॥ १०५॥ स गुरुर्विजयदानसूरिः मुनिभिः समं गणिपण्डितोपाध्यायादिसाधुभिः सार्द्ध मुहूतस्य दिने वासरे मण्डपस्य मध्यमीयिवान् गतः । क इव । प्रतिपन्थीव । यथा पृथिवीभृतां पर्वतानां प्रतिपन्थी वैरी इन्दः द्युसद्मभिः खर्गगृहैः सुरैः सह सदसः सभायाः सदन मन्दिरमेत्यागच्छति । 'नृपस्य नातिप्रमनाः सदोगृहम्' इति रघुवंशे ॥
इदमीयमहामहेक्षणोपनतैः पौरनरैः परःशतैः । निभृतं श्रियते स्म मण्डपो नवकासार इवाम्बुदाम्बुभिः ॥ १०६॥ परःशनैः शतात्परे परः शताः तैः सहस्रसंख्यैः पौरनरैर्नागरिकलोकैः मण्डपः सूरिपदप्रदानास्पदं निभृतं धनं भ्रियते स्म भृतः । किंभूतैः पौरनरैः । इदमीयस्य हीरहोंपाध्यायसंवन्धिनो महामहस्याचार्यपदस्थापनातिशयितोत्सवस्य ईक्षणार्थमुपनतैः समागतः । क इव । नवकासार इव । यथा नवीनस्तडागः अम्बुदाम्बुभिः प्रावृद्पयो. घरपानीयैः निर्भर पूर्यते ॥