________________
२१८
काव्यमाला।
मेरोः श्रियं शोभां कलयन् दधत् । 'मेरुमस्तके हि खर्गोऽस्त्रि' इति कविसमयः । 'वरणः कनकस्य मानिनी दिवमङ्कादमराद्रिरागताम् । घनरत्नकपाटपक्षतिः परिरभ्यानुनयनुवास याम् ॥' इति नैषधे। तेन मेरौ स्वर्गधर्मारोपणे न दोषः । कैः कृत्वा । मणिभी रत्नैः काञ्चनैः सुवर्णः कल्पैः सदाचारैः कल्पवृक्षैश्च । नन्दनैः पुत्रैः नन्दनवनेन च । एते धर्मास्तु मेरौ । अथ स्वर्गधर्माः । विबुधैर्विविधैर्विशिष्टर्वा बुधैः विशारदैः देवैश्च श्रीयुक्ताः शोभाकलिता हरयः तुरगा गजा वा यत्र । पक्षे लक्ष्म्या संयुतो हरिविष्णुर्यत्र सहजिष्णुभिर्जयनशीलैर्भटेर्वर्तते । पक्षे सहजिष्णुना पुरंदरेण विद्यन्ते ये ते ॥
कचिदिन्दुमणीमिथोमिलद्बहलोढ्योतनिकेतकैतवात् ।
ध्रुववासविधानकाशिणी वसति स्वैरमिवात्र पूर्णिमा ॥ २८ ॥ अत्र देवगिरिनगरे ध्रुवः शाश्वतो यो वास: स्थितिर्वसनं तस्य यद्विधान निर्माणं त. त्काङ्क्षति अभिलषतीत्येवंशीला । उत्प्रेक्ष्यते-खैरं स्वेच्छया पूर्णिमा पूर्णचन्द्रा राकातिथी रात्रिरूपा वसति तिष्ठतीव । कस्मात् । क्वचित्कुन्नापि स्थाने इन्दुमणीनां चन्द्रकान्तरत्नानां मिथः परस्परं मिलनेकीभवन् यो बहलो निविड उद्दयोतः प्रकाशो येषां तादृशानां निकेतानां गृहाणां कैतवाच्छलात् । 'शङ्के खसंकेतनिकेतमाप्ता' इति नैषधे ॥
अपि नीलमणीनिकेतनच्छलभूछायमुदित्वरैः करैः । द्विषतेव विवस्वता पुरीं शरणीकृत्य युयुत्सु लक्ष्यते ॥ २९ ॥ अपि पुनः कुत्र चन्दनप्रदेशे नीलमणीनिबद्धानां निकेतनानां मन्दिराणां छलं कपट यस्य। [नीलमणीनां मन्दिराणि क्वापि दृश्यन्ते। यथा नैषधे–'नृपनीलमणीगृहत्विषामुपधेर्यत्र भयेन भाखतः। शरणार्थमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः॥' इति ।] तादृशं भूच्छायमन्धकारमुदित्वरैरुच्चैरुद्यद्भिर्निर्गच्छद्भिः करैः किरणहस्तश्च । उत्प्रेक्ष्यते-द्विषता खवैरिणा विवखता सूर्येण सार्धम् । 'मित्रो ध्वान्तारातिरजांशुहस्तः' इति हैम्याम् । यथा हि। 'ध्वान्ते रविचन्द्रदीपका वैरिणो वर्ण्यन्ते' इति कविकल्पलतायाम् । युयुत्सु यो. मिच्छु इव लक्ष्यते । अर्थाजनैर्जायते । दृश्यते संग्रामं चिकीर्षुः तावदुच्चैःकर: स्यात् । महतः कस्यापि पार्श्व गृहीत्वा महखिना समं संग्रामो विधीयते । अयं शास्त्रविधिः । अत एव किं कृत्वा पुरी देवगिरिनगरी शरणीकृत्य खाश्रयां(य) विधाय ॥ इति देवगिरिनगरम् ॥ .
नगरे नगरन्ध्रकृद्युतो नितरां दिद्युतिरेऽत्र नागराः ।
मरुतां तनुगर्वखर्वताकृतये विश्वकृता कृता इव ॥ ३० ॥ अत्र देवगिरौ नगरे पुरे नागराः पौरयुवानो नितरामतिशयेन दिद्युतिरे विभान्ति स्म । किंभूताः । नगस्य क्रौश्चाचलस्य रन्ध्र छिद्रं करोतीति नगरन्ध्रकृत्स्वामिकार्तिकस्तद्वद्दयुत्कान्तिर्येषाम् । पाददीधितिकरातिद्युतः' इति हैम्याम् । 'सनगरं नगरन्ध्रकरौजसः' इति रघौ । 'स्कन्देन बाणैः कृत्वा क्रौञ्चाचल: सच्छिद्रो विहितोऽस्तीति' पट्टिकायाम्