________________
६ सर्गः हीरसौभाग्यम् ।
२५७ भूताः । अभ्रमाकाशं कषन्त्युल्लिखन्ति घर्षयन्तीत्यभ्रंकषाणि । गगनालिङ्गीनीत्यर्थः । - हाणि शिखराणि तेषां सङ्गो विद्यते येषाम् । उत्प्रेक्ष्यते-निजस्यात्मनो विद्वेषी शत्रुः इन्द्रस्य भयेन विद्वताः पलायिता नष्टाः सन्तः अन्तरिक्षकं श्रीअन्तरिक्षनामानम् । खार्थे कः । जिनं जगन्नाथं श्रिताः सेवमानाः कुलाचलाः किमु मन्दरहरगिरिप्रमुखाः पर्वता इव ॥
विपिनानि पदे पदे मुदं ददते यत्र विलासशालिनाम् ।
स्फटिकाचलमूर्धनीव यद्विजितं चैत्ररथं हिया ययौ ॥ २४ ॥ यत्रापाच्यां दिशि विपिनानि विस्मेरद्विविधवृक्षलक्षकमनीयानि वनानि पदे पदे स्थाने स्थाने मुदं हर्षे ददते विश्राणयन्ति यच्छन्ते । केषाम् । विलासेन ज्यादिभिः समं पुष्पावचयासवपानगीतनृत्यनिधुवनादिविनोदेन विविधक्रीडया शालन्ते शोभन्ते इत्येवंशीलाः । तरुणीसखतरुणा इत्यर्थः । तेषाम् । यैर्वनैर्विजितं खशोभया पराभूतं सच्चैत्ररथं धनदवनम् । उत्प्रेक्ष्यते-हिया लजया कृत्वा स्फटिकाचलमूर्धनि कैलासशिखरशिरसि । 'रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः' इति हैम्याम् । ययौ गतमिव ॥
सरितो दिशि यत्र निमगेत्यपवादं व्यपनेतुमात्मनः ।
स्थितवत्य उपेत्य सेवितुं किमपाचीगृहनाभिसंभवम् ॥ २५ ॥ यत्र याम्यां दिशि हरिति सरितोऽनेका नद्यः उपेत्यागत्य स्थितवत्यः न्यवसन्। स्थिता इत्यर्थः । उत्प्रेक्ष्यते-अपाच्या दक्षिणस्यां दिशि गृहं स्थानं वसतिर्यस्य तादृशं नाभेर्नु. पात्संभव उत्पत्तिर्यस्य ऋषभदेवं माणिक्यखामिनमथवा सोपाकरकपत्तनाधीशजीवत्वामिनम् । आदिदेवमित्यर्थः । सेवितुं स्थितवत्य इव । किं कर्तुम् । आत्मनः खस्य निम्नं गच्छन्तीति निम्नगा नीचगामिनीत्यपवादं निन्दामपयशो वा व्यपनेतुमपाकर्तुम् ॥
पिबतान्मुनिरेष नोऽपि मा पतिवत्पर्वतजा भयादिति । दिशि यत्र समेत्य संश्रिता इह जीवद्वषभाङ्कपारगम् ॥ २६ ॥
.. (इति पाठान्तरम्). यत्र दक्षिणस्यां दिशि पर्वतजा नद्यः । उत्प्रेक्ष्यते-इति भयादिव समेत्यागत्य जी. वदृषभाकपारगं विद्यमानवृषभाकपारगं जिनम् । जीवत्स्वामिनमित्यर्थः । इति किम् । एष मुनिरगस्तिः पतिवत्समुद्रमिव नोऽस्मानपि मा पिवतात् । अगस्तिर्मुनिर्भगवांस्तु मुनीश्वरोऽस्ति । अतः श्रयणं भयापहम् । इति पाठान्तरे ॥ इति गिरिवननद्यः ॥
मणिकाञ्चनकल्पनन्दनैर्विबुधैः श्रीहरिभिः सजिष्णुभिः ।
इह देवगिरेरिव श्रियं कलयन्देवगिरिविरोचते ॥ २७ ॥ . इह दक्षिणस्यां दिशि देवगिरि म नगरं विरोचते भाति । उत्प्रेक्ष्यते-देवगिरे.