________________
६ सर्गः हीरसौभाग्यम् ।
२५९ तथा । 'स्कन्देषुवृन्दनिवरैर्विवरीतुकामः क्रौञ्चाचलः' इति नैषधे । खामिकार्तिकशररा रे. कृतविवरैछिट्टैरिति तद्वत्तिः । उत्प्रेक्ष्यते-मरुतां देवानां तनूनां गर्वः शरीरसौन्दयातिशवाभिमानः तस्य खर्वता कुब्जीकरणत्वं नीर्चः कारिता तिरस्कारकत्वं तस्य कृतये कार्यार्थ विश्वकृता जगत्सृष्टिविधायिना ब्रह्मणा कृताः खयं निष्पादिता इव ॥
रतिकान्तकलावहेलि यत्तरुणानां तनुरामणीयकम् ।
स्पृहयन्त इवात्मजन्मनो निकटेऽहर्निशमासते सुराः ॥ ३१ ॥ सुरा देवा आत्मजन्मनो ब्रह्मणः । 'नाभिपद्मात्मभरपि' इति हैम्याम् । निकटे समीपे अहर्निशं नियमासते तिष्ठन्ति । 'आसते शतमविक्षिति भूपास्तोयराशिरसि ते खलु कूपाः' इति नैषधे । उत्प्रेक्ष्यते--यत्तरुणानां देवगिरिनगरवयस्थनागराणां रतिका. न्तसं स्मरस्य कलां रूपशोभालक्षगाम् । अथ वा भावप्रधाननिर्देशात्कलत्वं मनोज्ञतामवहेलयत्येवंशीलं तनूनां शरीराणां रामणीयकं सौन्दर्य स्पृहयन्तः इव अर्थादभ्यर्थयन्त इव ॥ इति देवगिरिनागराः ॥
प्रतिपञ्चमुलं द्विषं व्ययीकृतसस्त्रितया निरायुधः।
अकरोदिदमङ्गनामिषादिव हेतीः शतशः स्मरः पुनः ॥ ३२ ॥ . स्मरः कामः इदमङ्गनानां देवगिरिनागरीणां मिषात्कपटात् । उत्प्रेक्ष्यते-शतशः ! बहूनि शतानि हेतीः प्रहरणान्यकरोदिव चकार । किंभूतः स्मरः । द्विषं खवैरिणं प. श्वमुखमीश्वरं प्रति । 'पञ्चमुखोऽष्टमूर्तिः' इति हैम्याम् । व्ययीकृतानि संग्रामे क्षिप्तानि सर्वाणि समस्तान्यस्त्राण्यायुधानि येन तत्त्वेन । मुखं मुखं प्रत्येकैकं बाणं क्षिप्तम् । एवं पञ्चानामपि शराणां क्षेपानिरायुधीभूतः शस्त्ररहितो जातः ॥ : स्वपदाभिककुम्भसंभवं तपसः पातयितुं मरुद्ध(त्व)ता ।
इदमिन्दुमुखीमिषादिह प्रहिताः स्वर्गिमृगीदृशः किमु ॥ ३३ ॥ मरुद्व(त्व)ता इन्द्रेण इदमिन्दुमुखीनामस्य देवगिरिनगरस्य चन्द्राननानां नागराणां मिषाद्याजात् । उत्प्रेक्ष्यते-इह दक्षिणस्यां दिशि खर्गिमृगीदृश: अप्सरसः किमु प्रहिताः प्रेषिता इव । किं कर्तुम् । खपदमिन्द्रपदवी देवलोकैश्वर्य तस्याभिकं तपसा कामयितारं कुम्भसंभवमगस्ति तापसं तपस उपवासादिकष्टकरणात्पातयितुं भ्रंशयितुम् । इदं तु शैवशासनानुयायि वचो न जैनपरम् । कविसमयानुगामित्वादुक्तमित्यभ्यूह्यम् ॥
जलकेलिगलद्विलेपनीकृतगोशीर्षविलोचनाञ्जनैः ।
पुरि पद्मदृशः प्रकुर्वते गृहवापीविधुमण्डलीरिव ॥ ३४ ॥ पुरि देवगिरिनगरे पद्मशः कमललोचनाः स्त्रियः गृहवापीर्जलभवनविलासदीपिका विधुमण्डलीः शशिबिम्बानीव प्रकुर्वते । मण्डलशब्दस्त्रिषु लिङ्गेषु । 'कुवलयमृणालमण्डलाः' इति लिङ्गानुशासने । मण्डलः, मण्डलम् , मण्डली । तथा च नैषधे-'शुद्धा सु