SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २६४ काव्यमाला। कुर्वन् । कुण्डलिनां गन्धशैत्यलोभाच्चन्दनद्रुमान् परिरभ्य स्थितानां नागानां मण्डली: कलयन् । 'चन्द्र लाञ्छनता हिमं हिमगिरौ क्षारं जलं सागरे रुद्धाश्चन्दनपादपा विषधरैरम्भोरुहं कण्टकैः' । तथा-'दोजीहा वंकग्गया जइ विसहरा न हुंति । ता चंदण तुह छांहडी वहुसजण निवसंति ॥' इति सूक्ते । तथा-'विषमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः' इति नैषधेऽपि । नागलोकोऽपि नागश्रेणीभिर्भूतः । पुनः किंभूतः । विशदानि निर्मलान्यच्छानि श्वेतानि च यान्यमृतानां नीराणां मुधानाम् । 'अमृतं गगने हृद्ये खर्णतोये रसायने । कैवल्ये गोरसे यज्ञशेषे माक्षीकवर्णयोः ॥ सुधा याचितयो रत्ने चन्द्रे च' इत्यनेकार्थतिलकः । कुण्डानि दृषद्बद्ध निम्नजलस्थानानि तैर्मण्डितो भूषितः । पाताले तु नवसंख्याकानि सुधाकुण्डानि सन्तीति कविसमयः । पुनः किंभूतः । धृताः पुंनागाः सुरपर्णिका वृक्षविशेषा येन । पक्षे-पुमानागो वासुकिः . सर्पराजो येन । 'धूर्जटिजटाजूट इव पुंनागवेष्टितों वापीपरिसरः' इति चम्पूकथायाम् । पुंनागो वासुकिरिति तट्टिप्पणके । तथा बलाहकानां वकानामुत्सवः सुरतक्रीडागर्भ: प्रसवादिर्यत्र वर्षाकाले हि बकाः क्वापि नीडान् विधाय प्रावृट् उपविशन्ति । 'पावस. बक बइठा' इति लोकप्रसिद्धम् । अथ वा बलाहकानां मेघानामुत्सव उनमनमत्र । मेघा हि प्रायो गिरिषु सर्वदैव भवन्ति । 'शरत्प्रवासिताः सन्तः पुनस्तत्कमलाप्तये । शैलादौ क्वापि तिष्ठन्ति तपस्यन्त इवाम्बुदाः ॥ इति वचनात् । पक्षे बलाहको नागवि. शेषः । अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः । इत्यादयः परे नागाः' इति हैम्याम् । तस्योत्सवो महो हर्षोल्लासः । 'बलाहकोऽम्बुदे शैले दैत्ये नागे हयान्तरे । बके च' इत्यनेकार्थतिलकः॥ मलयो मलयद्रुसौरभैः प्रतिदिक्षु प्रहितैनरैरिवं । , रसिकायितदिग्विलासिनीनिजभूमौ हयतीव खेलितुम् ॥ १४ ॥ मलयः पर्वतः कर्ता प्रतिदिक्षु समन्तात्सर्वदिशासु । 'आपं चैव हलन्तानां यथा वाचा निशा दिशा' इति सारखतव्याकरणे प्रक्रियायां च । प्रहितैः प्रेषितैनरैः खसेव. कपुरुषैरिव । उत्प्रेक्ष्यते-मलयद्रुमाणां श्रीखण्डपादपानां सौरभैः परिमलें: कृत्वा रसिका इवाचरिता इति रसिकायितास्तादृशीर्दिग्विलासिनीदिगङ्गनाः । कर्मपदम् । खेलितुं क्रीडां विधातुं निजभूमौ आत्मीयविनोदस्थाने ह्वयत्याकारयतीव ॥ यदुदीतसमीरणः समं प्रसरच्चन्दनसारसौरभैः। कटकैर्विजयीव भूपतिनिखिलाशा अपि पर्यपूरयत् ॥ १५ ॥ यस्मान्मलयाचलादुदीतः प्रकटीभूतः समीरण: पवनः । मलयानिल इति प्रसिद्धः । समं समकालमतिवेगवत्तया चतुर्दिवप्रसृतत्वाच्चैकसमयमेव निखिलाशाः समग्रा अपि दिशः पर्यपूरयद्याप्नोति स्म । भरति स्मेत्यर्थः । कैः । प्रसरद्भिरविरलं नि:सद्भिश्चन्दनानां गन्धसारतरूणां सारैः प्रकृष्टैः सौरभैः सुगन्धताभिः परिमले: । क इव । भूपति
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy