SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ६ सर्गः] हीरसौभाग्यम् । २५९ रिव । जयनशीलो विजयी राजा कटकैः खसैन्यैः कृत्वा सकला अप्याशाः पूरयति ॥ 1 इति मलयाचलः ॥ इह शंकरभूमिभृत्सुखंकरमाणिक्यविभुर्विभासते । महिषाङ्कदिगङ्गनामुखे किमु माणिक्यमयो विशेषकः ॥ १६ ॥ इह दक्षिणदिशि शंकरनामा यो भूमिभूद्राजा तस्य रोगोपशामकत्वेन सुखंकरः शकर्ता माणिक्यनामा विभुः स्वामी विभासते भाति । उत्प्रेक्ष्यते - महिषः कासरः स एवाङ्कश्चिहं यस्यैतावता महिषवाहनो यमः । 'दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः । तथा धार्यत्वे वृषलाञ्छन: । 'तथा वृषाङ्कोऽपि' इति हैम्याम् । तथा महिषाङ्को महिषवाहनो यमः तस्य दिग्दक्षिणाशा सैंवाङ्गना गृहिणी तस्या मुखे माणिक्यमयो नीलरत्नघटितो विशेषकस्तिलक इव ॥ विविधाभरणप्रभाङ्कुरच्छुरिता या जिनमूर्तिराबभौ । किमशेषयशःप्रशस्तिका प्रथमार्हत्तनुजन्मचक्रिणः ॥ १७ ॥ या माणिक्यस्वामिनो मूर्तिः प्रतिमा आबभौ । किंभूता । विविधान्यनेकप्रकाराणि यान्याभरणान्यलंकारास्तेषां प्रभाणां कान्तीनामङ्कुराः प्ररोहास्तै छुरिता व्याप्ताः । ' चन्दनच्छुरितं वपुः' इति पाण्डवचरित्रे । उत्प्रेक्ष्यते - प्रथम आद्योऽर्हस्तीर्थकरो वृषभदेव - स्तस्य तनुजन्मा नन्दनः स एव चक्री । एतावता भरतचक्रवर्ती तस्याशेषाणां समग्राणां यशसां दिग्विजयसंघपत्तिभवनप्रमुखधर्म कर्मकरणोद्भूताद्भुतकीर्तीनां प्रशस्तिका किमु लिखिताक्षरमालिकेव ॥ इति माणिक्यखामी ॥ अपि पार्श्वजिनान्तरिक्षकाभिध उच्चैः स्थितिकैतवादिह । किमु लम्भयितुं महोदयं भविनां भूवलयाप्रचेलिवान् ॥ १८ ॥ अपि पुनरर्थे । इह दक्षिणस्यामाशायामन्तरिक्ष इत्यभिधा नाम यस्य सोऽन्तरिक्षकाभिधः पार्श्वनामा जिनस्तीर्थकरः । एतावता श्रीअन्तरिक्षपार्श्वनाथः उच्चैरन्तरिक्षे गगने .या स्थितिः वसनस्थानं तस्याः कैतवान्मिषाद्भूवलयात्क्षोणीमण्डलात्प्रचेलिवान् प्रस्थितः । उत्प्रेक्ष्यते - भविनां स्वभक्तभव्यजन्तूनां महोदयं लोकाग्रस्थानं मोक्षं लम्भयितुं किमु प्रापयितुमिव प्रचलितः ॥ फणभृद्भगवन्निभालनादनुभूताहिविभुत्ववैभवः । स्पृहयन्भुवनद्वयीशतां फणदम्भाद्भजतीव यं पुनः ॥ १९ ॥ फणभृन्नागेन्द्रः फणदम्भात्स्फटाकपटात्पुनर्द्वितीयवारं [ यमन्तरिक्षपार्श्वनाथम् ] । उत्प्रेस्यते - भजतीव श्रितवानिव । किंभूतः । भगवतः कमवतापसपञ्चाग्निसाधनाध्यवसायसमानीतार्धनिर्दग्धविदारितदारुमध्यविनिर्गतसामिप्रज्वलितशरीरसर्पस्य श्रीमत्पार्श्वनायस्य प्रत्यक्षतो निभालनाद्दर्शनानुभावादनुभूतः प्राप्तः अहीनां नागदेवानां विभुत्वं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy