SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २४४ काव्यमाला। यो वटतरुोलैरुड्यनादितस्ततः पर्यटनाद्वा चपलैविहङ्गैः पक्षिभिः । उत्प्रेक्ष्यते-इति हेतोर्गौरवान्माहात्म्यात्किमु चमरैर्वालव्यजनैरिव । 'चमरश्चामरः' इति शब्दप्रभेदे । तथा 'चमरचामरे दैत्ये' इत्यनेकार्थः । पक्षस्तनूरुहवींज्यते स्म । इति किम् । यद्यस्मात्कारणात् न्यक्षाः समस्ता ये रुक्षाः पादपास्तेषां निकरेषु गणेषु गुरुत्वं महत्वं बिभर्ति धत्ते। क इव । भूमानिव । यथा मनुजेषु अशेषमनुष्येषु राजा गौरव कलयति । पाठान्तरेअथवा सर्ववृक्षेषु मखमुशिखरी सुरतरुः कल्पवृक्षो गुरुतां धत्ते ॥ रागिणः प्रणयतोऽखिललोकाशैशवावधिजगज्जनगेयान् । . तद्गुणानिव निशम्य सरागः पल्लवैरयमशालत शालः ॥ २०१॥ अयं शालो पटतरुः पल्लवैः किसलयैः अशालत शोभते स्म । उत्प्रेक्ष्यते-तद्गुणान् हीरकुमारस्य धैर्यौदार्यगाम्भीर्यशमदमादिमान् गुणान् निशम्याकर्ण्य सरागो रक्तो जात इव । गुणान् किं कुर्वतः । अखिलान् समस्तान् लोकान् नाकिनागररूपजनान् रागिणो निजानुरक्तान् प्रणयतः । पुनः किंभूतान् । शैशवावधि बाल्यावस्था मर्यादीकृत्य जगतां । पातालवर्गभूमीलक्षणानां भुवनानां जनैः सुरासुरनरैर्गेयान् गातुं योग्यान् ॥ वल्कलैः कलयतात्मनि भूषां बिभ्रता कपिशशालिजटालीम् । काननस्थितिमताजनि तेनातन्वता किमु तपो व्रतिनेव ॥ २०२ ॥ तेन वद्रुमेण । उत्प्रेक्ष्यते--तिनेव तापसेनेव तपः अनाहारलक्षणं कष्टं किमु कुर्वता अजनि जातम् । केनेव । व्रतिनेव । यथा तापसेन तप:कुर्वता जायते । किं. भूतेन तेन व्रतिना च वल्कलैः वल्लीभिक्षविशेषत्वरिभश्च । 'त्वचि वल्ली चोक्तं वल्कलम्' इति हैम्याम् । कृत्वा आत्मनि खस्मिन् विषये भूषां शोभा · कलयता दधता । पुन: किंभूतेन । कपिशां पीतरक्ताम् , तथा शालिनी शोभनशीलाम् , जटानां शिफानां वृक्षमूलानां सटानां सार्द्रभस्मभरैरेकीकृत केशानां च । 'प्रकाण्डौघजटाः शिफाः', 'जटाः सटा' इति द्वयमपि हैम्याम् । 'जटा केशविकारे मांसिमूलयोः' इत्यनेकार्थः । आली श्रेणी बिभ्रता धारयता । पुनः किंभूतेन । कानने वने स्थितिर्वासो विद्यते यस्य ॥ .. निष्कुहान्तरितविष्किरवारस्फारतारनिनदैवटशाखी। यो मरुत्तरलपल्लवहस्तैराह्वयन्निव निजान्तिक एतम् ॥ २०३ ॥ यो वटतरुः एतं कुमारम् । उत्प्रेक्ष्यते-निजान्तिके स्वसमीपे आयुयन्नाकारयन्निवास्ते । कैः । निष्कुहान्तरितानां स्वकोटरव्यवहितानां तरुस्कन्धरन्ध्रमध्यगतानां विष्किराणां विहङ्गानां वारस्य समूहस्य स्फारैः स्पष्टैः पटुभिस्तारैरत्युच्चैः कृतैर्निनादैः कूजितैः । पुनः कैः । मरुता पवनेन तरलाश्चश्चला ये पल्लवाः प्रवालास्त एव हस्ताः पाणयस्तैः कृत्वा चेत्यध्याहार्यम् ॥ इति दीक्षाग्रहणयोग्यवद्रुमवर्णनम् ॥ शिश्रिये विजयदानयतीन्द्रः पूर्वमेव तदुपागमनाद्यम् । छाययाखिलजनं सुखयन्तं कः श्रयेन्न धनदाश्रयमत्र ॥ २० ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy