________________
५ सर्गः]
हीरसौभाग्यम् ।
चित्रशाला यत्र । 'चित्रा त्वाखुपर्णीसुभद्रयोः । गोदुम्बाप्सरसोर्दन्त्यां नक्षत्रौषधिभेदयोः' इत्यनेकार्थः । राजगृहे तु सुतरां स भवेदेव । यथा पाण्डवचरित्रे दमयन्तीप्रवासे'लीलाकुरङ्गकक्रीडासारिके केलिबहिणः । गृहपारावता: सद्म कीरवापीसितच्छदाः । प्रेयांसमनुगच्छन्तीमनुजानीत मां मनाक् ॥' तथा द्रौपदीप्रवासे-'हंहो बहिन्नहो हंस हले हरिणि हे शुक । कुशलं वस्त्वसौ देवाद्याति वः परिचालिका । इत्यापृच्छय पत. द्वाष्पा केलिपात्राणि सर्वतः ॥' इति ॥
पुष्पपल्लवफलानि दधानाः शाखिनः स्मितशिखाग्रशयेषु ।
स्वागतं द्विजरवैः किमुदीर्यास्यातिथेयमतिथेरिह चक्रुः ॥ १९७ ॥ इह वने शाखिनो वृक्षाः अतिथेनिजप्राघुणकस्य अस्य कुमारस्य आतिथेयमतिथिसत्रियां किमु चक्रुः कुर्वन्ति स्म । किं कृत्वा । द्विजाना खाङ्कस्थायुकानां पक्षिणां रवैः शब्दैः खागतं सुखेनागतं कुशलप्रश्नादिकं वा उदीर्य कथयित्वा । पृष्ट्वा वा इत्यर्थः । किं कुर्वाणाः शाखिनः । स्मिता विकसिता याः शिखाः खशाखास्ता एवाग्रहस्ता हस्ताप्राणि अथ वा तासां शिखानामग्राणि तान्येव शयाः पाणयस्तेषु पुष्पाणि कुसुमानि पल्लवाः प्र. वालाः फलानि सस्यानि दधानाः धारयन्तः ॥
तत्र सस्यभरगौरवभाग्भिः कोकिलाक्कणितसंस्तववाग्भिः । . पादपैरयमनम्यत वन्यै विसूरिपुरहूतधियेव ॥ १९८ ॥
तत्रोद्याने अयं कुमारः वन्यैः काननभवैः पादपैर्वृक्षः अनम्यत नमस्कृतः । किंभूतैः पादपैः । सस्यानां फलानाम् । 'फलं तु सस्यम्' इति हैम्याम् । भराः समूहास्तेषां गौरवं भारं भजन्तीति । पुनः किंभूतैः। कोकिलानां कलकण्ठानां क्वणितानि कूजितानि पश्चमालापास्तान्येव संस्तवः स्तुतिस्तयुक्ता तद्रूपा वा वाग्येषाम् । उत्प्रेक्ष्यते-भाविनो भविप्यतः आचार्यपुरंदरस्य धिया बुद्धथैव ॥ इत्युपवनम् ॥
कामनीयकमशेषममुष्यान्वेषयन्वटतरुं स ददर्श ।
श्रीतिरस्कृतसमग्रवनस्य छत्रमेतदिव मूनि वनस्य ॥ १९९ ॥ ___स कुमारो वटतरुं प्रक्षवृक्षं ददर्श पश्यति स्म । किं कुर्वन्कुमारः । अन्वेषयन् विलो. कयन् । किम् । अमुष्योद्यानस्याशेषं समस्तमपि कामनीयकं मनोज्ञताम् । कमनीयस्य भावः कामनीयकम् । मनोज्ञादित्वाद्रुञ् । 'कामनीयकमधःकृतकामम्' इति नैषधे । उत्प्रेक्ष्यते-धीभिः खशोभाभिः तिरस्कृतानि पराजितानि समग्राणि सर्वाष्यपि वनानि नन्दनचैत्ररथादीनि काननानि येन तादृशस्यास्य वनस्य पत्तनोपविपिनस्य मूर्ध्नि मस्तके एतन्महावटरूपेण दृश्यमानं छत्रमातपवारणमिव ॥
न्यक्षरुशनिकरेषु गुरुत्वं यद्विभर्ति मनुजेष्विव भूमान् । गौरवात्किमिति लोलविहहै:ज्यते स्म चमरैरिव पक्षैः ॥ २० ॥