SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। जगाम । क इव । पद्मिनीपति रिव । यथा कमलिनीकान्तो भास्करः अभ्युदयाय उद्गमनार्थ पूर्वपर्वत उदयाचलः । 'पूर्वपर्वततिरोहितात्मनः' इति वस्तुपालकीर्तिकौमुदी. भ्रातृसुरथोत्सवकाव्ये । तस्य शिरसि मस्तके। उपरितनभागे इत्यर्थः । यच्छिखरं * तस्याङ्के उत्सङ्गे समेति । किंभूतः कुमारः पद्मिनीपतिश्च । दिताः । 'दो अवखण्डने' । खण्डिताश्छिन्ना दोषा अपगुणा रात्रयश्च येन सः ॥ कौतुकाद्भुवमुपेत्य वसन्ती खःपुरीमिव पुरीमवगत्य । आगतं किमनु नन्दनमत्रोद्यानमेष निपपौ नयनाभ्याम् ॥ १९५॥ एष हीरकुमार उद्यानं विपिनं नयनाभ्यां निजनेत्राभ्यां कृत्वा पपी सादरमवलोकयति स्म । उत्प्रेक्ष्यते-अत्र पत्तनसमीपे अनु पश्चादागतं किं नन्दनं देवराजवनमिव । किं कृत्वा । पृष्ठे समेतं कौतुकानागरिकनिकरविशिष्टरूपविविधविचेष्टितवीक्षणोद्भूत कौतूहलाद्भुवं भूमीमण्डलमुपेत्य अभ्यागत्य । 'भुवि समेत्य' इति वा पाठे भुवि पृथिव्यां समेत्यागत्य वसन्तीं वासं सृजन्तीं तस्थुषी स्वःपुरी खनगरीममरावतीमिव पुरीम् अणहिल्लपत्तनरूपां नगरीमवगत्य ज्ञात्वा । 'ज्ञातं सितगते अवात्' इति हैम्याम् । तथा—'अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुदृतम् ॥' इति रघुवंशे ॥ शारिकाशुकशिखण्डिकपोतीपोतकेलिकलनाकमनीयम् । मत्तवारणविचित्रितसालं प्राविशद्हमिवोपवनं सः ॥ १९६ ॥ स हीरकुमारो गृहं मन्दिरमिव उपवनं तत्पत्तनसमीपोद्यानं प्राविशत् प्रविशति स्म । किंभूतं गृहमुपवनं च । महेभ्यानां गृहे क्रीडाविनोदविधानार्थ विविधाः पक्षिणः स्युः । तदेव दर्शयति-शारिकाः पीतपादाः, शुकाः कीराः, शिखण्डिनो मयूराः, कपोतीनां पारा. वताङ्गनानाम् । 'परिणतरविगर्भव्याकुला पौरहूती दिगपि घनकपोती हुंकृतैः क्रन्थतीव' इति कालिदासकृतप्रभातवर्णनकाव्ये। पोताः शिशकः । अथवा कपोत्यः अत्यन्त विषयित्वात्कदाचिदपि कपोताः प्रियाणां पार्श्व न मुञ्चन्त्यतः कपोताः कपोत्यः । तथा पोताः दशवर्षीया गजबालाः । ‘पञ्चवर्षो गजो बाल: स्यात्पोतो दशवार्षिकः' इति हैम्याम् । पोतसाहचर्यात्त. न्मातरः पितरोऽप्यागता एवेति । महेभ्यानां गृहेऽपि गजा भवन्ति । 'गजान्तलक्ष्मीः ध्वजान्तः प्रासादः' इति वचनात् । तेषां याः केलिकलनाः क्रीडाकरणानि तैः कमनीयं मनोज्ञम् । पुनः किंभूतम् । मत्तवारण: मदो रसिन्धुराः । पूर्वोक्तास्तु सामान्यगजा:, एते तु गन्धसिन्धुराः, अयं विशेषः । तथा विशिष्टाश्चित्रा आखुपर्णी समुद्राभिधाना वा औषधयस्ताभिर्युक्ता जाता । अथवा चित्रिता उरगविशेषाः । 'चित्रडि' इति प्रसिद्धाः। तैः सहिता जाता वा । वृक्षाणां कोटरेषु प्रायो भजङ्गा भवन्ति । साला वृक्षा यत्र ग्रहे त मत्तालम्बाः । 'मत्तालम्बोपाश्रयः स्यात्प्रग्रीवो मत्तवारणः' इति हैम्याम् । 'घोडला' इति प्रसिद्धाः । तथा विविधैश्चित्ररालेख्यैः सहिता जाताः । श्लेषे शसयोरैक्यात् । शाला
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy