________________
५ सर्गः
हीरसौभाग्यम् ।
२४१
जालकानि काश्चनरचितगवाक्षा एव विमानानि देवतानां खर्गे स्थितिस्थानानि तेषु गतानां संप्राप्तानाम् । सुखं निषेदुपीनामित्यर्थः । उत्प्रेक्ष्यते-भुवः पृथ्व्या अप्सरसा सुराङ्गनानामिव । अप्सरसोऽपि विमानस्थायिन्यः स्युः ॥ इति पौराङ्गनानां हीरकुमारदर्शनीद्भूतमियः कथाप्रथा ॥
नीरदोऽवनिभृतामिव तापं वृष्टिभी रजतहेममयीभिः ।
सोऽर्थिनां प्रमथयन्पथि दौःस्थ्यं संचचार पुटभेदनमध्ये ॥१९२॥ स हीरकुमारः पुटभेदनमध्ये पत्तनविचाले संचचार संचरति स्म । 'पत्तनं पुटभेदनम्' इति हैम्याम् । तथा 'द्वीपान्तरेभ्यः पुटभेदनं तत्क्षणादवापे सुरभूमिभूपैः' इति नैषधे । किं कुर्वन् । रजतानि रूप्याणि हेमानि काञ्चनानि तन्मयीभिस्तैः प्रचुराभिः धानाभिर्वा वृष्टिभिः दानैः रूपकवर्गकादिविश्राणनैः कृत्वा पथि मार्गे अभिनां याचकानां दौःस्थ्य दारियं प्रमथयनिर्दलयन् । क इव । नीरद इव । यथा वारिदो मेघ: अवनिभृतां भूधराणां पर्वतानां तापं निदाघदाचं प्रमथयति प्रशमयति । यदुक्तम्-'धाराधरा एवं धराधराणां निदाघदाघौघविघातदक्षाः' इति सूक्तम् । काभिः । वृष्टिभिजलवर्षणैः ॥
तद्यशोधरणिभर्तुरितोऽन्यद्वीपनिर्जयकृते प्रयियासोः । · अध्वरोधिजलधीनिव रोद्धं तत्क्षणे क्षितिरजोभिरुदीये ॥ १९३ ॥ तस्मिन् कुमारस्य दीक्षाग्रहणार्थ समहं गमनसमये क्षितेः पृथिव्याः सकाशात् रजोभिधूलीभिरुदीये प्रकटीभूतम् । प्रमृतमित्यर्थः । उत्प्रेक्ष्यते-इतोऽस्माजम्बूद्वीपादन्येषां षण्णाम् पुष्करशाककौञ्चकुशशाल्मलप्लक्षनाम्नां द्वीपानाम् । 'सप्तद्वीपा वसुमती' इति शिवराजर्षिवचनात् । षड्वोपाभिधानानि नैषधे । जनमते तु जम्बूद्वीपं धातुकीखण्डम् , पुष्करवरद्वीपम् , वारुणीवरद्वीपम् , घृतवरद्वीपम् , क्षीरवरद्वीपम् , इक्षुवरद्वीपम् , इति । अथवा अटादशसंख्याकानां द्वीपानाम्। 'अष्टादशद्वीपनिखातयूपः' इति रघुवंशे । तथा । 'नवद्वयीपपृथग्जयश्रियाम्' इति नेषधे । निजयकृते विजयाथै प्रयियासोः प्रयातुमिच्छोः तद्यशोधरणिभर्तुः कुमारलोकराजस्य । धरणिशब्दो ह्रखोऽप्यस्ति । यथा-- 'धरणिविरहिणि कान्तमुद्रे समुद्रे' इति नाटककाव्ये । अध्वानं मार्ग झन्धतीत्येवंशीलान् जलधीन् । लवणवादूदकक्षीरोददधिमण्डघृतोदसुरोदकेचरसनाम्नः जिनशासने सप्त समुद्राः । लवणसमुद्रकालोदधिपुष्करोदधिवारुणीसमुद्रघृतोदक्षीरोदधिइक्षुरससमुद्रनामानोऽर्णवाः सप्तसंख्याकान् गमनमार्गरोधकान् समुद्रान् रोदुमावरीतुं स्थलीकर्तुमिव रेणुभिः प्रसने ॥
संयमाय समियाय कुमारः पत्तनोपविपिने दितदोषः ।
पूर्वपर्वतशिरःशिखराङ्के पद्मिनीपतिरिवाभ्युदयाय ॥ १९४ ॥ हीरकुमारः संयमाय चारित्रग्रहणार्थ पत्तनस्योपविपिने समीपोद्याने समियाय समा