SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः] हीरसौभाग्यम् । विजयदाननामा यतीन्द्रः सूरिः तदुपागमनात्कुमारस्यागमनात्पूर्वमेव प्रथममेव यं वटतरुं शिश्रिये श्रितवान् । प्रागेव तत्रागत्य निषण्ण इत्यर्थः । युक्तोऽयमर्थः । अत्र जगति छायया आश्रयेण । 'वयं श्रीमच्छायया जीवामः' इति लोकरूढिः। प्रतिच्छायिकया चाखिलजनं समस्तलोकं सुखयन्तं सुखीकुर्वन्तम्, तथा धनदानां वदान्यानां वैश्रवणस्य वा आश्रयं स्थानम् । 'वटो वैश्रवणाश्रयः' इति हैम्याम् । कः सुखार्थी पुमानाश्रयेन सेवेत । अपि तु सर्वोऽपि जनस्तं भजेदित्यर्थः ॥ तीर्थनाथमिव चैत्यतरोस्तत्पादपस्य सविधे स्थितिमन्तम् । संमदेन स कुमारमहेन्द्रस्त्रिः प्रदक्षिणयति स्म मुनीन्द्रम् ॥ २० ॥ स कुमारमहेन्द्रः हीरनामा । शिशुव(श)कः संमदेन हर्षेण कृत्वा मुनीन्द्रं श्रीविजयदानसूरिं त्रिः वारत्रयं प्रदक्षिणयति स्म प्रदक्षिणीकृतवान् । किंभूतं मुनीन्द्रम् । तस्य पूर्वव्यावर्णितस्य पादपस्य वटशाखिनः सविधे समीपे स्थितिरुपवेशनं विद्यते यस्य । कमिव । तीर्थनाथमिव । यथा महेन्द्रः पुरंदरश्चैत्यतरोरशोकदुमस्य केवलज्ञानोत्पत्तिस्थानकवृक्षस्य वा पार्श्व तिष्ठन्तं जिनेन्द्रं त्रिःकृत्वः त्रिवारं प्रदक्षिणीकरोति । प्रभोः प्रदक्षिणात्रयं ददाति स्मेत्यर्थः ॥ उत्ततार तुरगात्स कुमारो बर्हिणादिव सुतः सुरसिन्धोः । श्रीगुरुं प्रमुदितश्च ललाटन्यस्तहस्तनलिनस्तमनंसीत् ॥ २०६ ॥ स.हीरनामा कुमारस्तुरगादश्वादुत्ततार उत्तीर्णवान् । क इव । सुरसिन्धोः सुत इव । यथा सुरसिन्धोर्देवनद्याः गङ्गाया नन्दनः स्वामि कार्तिकः बहिणान्मयूरादुत्तरति । 'आवासवृक्षोन्मुखबर्हिणानि' 'इति रघुवंशे । उत्तीर्य च पुनस्तं महावीरदेवपटपरम्परायातं दीक्षादानगुरुं वा श्रीगुरुं शोभाकलित विजयदानसूरिम् अनंसीत् प्रणमति स्म । किंभूतः। . प्रमुदितो हृष्टवदनः । पुनः किंभूतः । ललाटे खभालस्थले न्यस्तो स्थापितौ हस्तौ पाणी — एव नलिने कमले यत्र ॥ रामणीयकविधेरवधेर्मे भूषया वपुषि कृत्रिमया किम् । तत्यजे निजतनोरिति सर्वाङ्गीणभूषणभरः किमनेन ॥ २०७॥ अनेन हीरकुमारेण निजतनोः स्वाङ्गात् । उत्प्रेक्ष्यते-इति हेतोः सर्वाण्यङ्गानि व्याप्नो. ति। पथ्यकर्मपत्रपात्रं व्याप्नोति' इति सूत्रेग ख ईनादेशश्च । सर्वाङ्गीण इति सर्वाङ्गोपाङ्गसंबन्धी । भूषणानामाभरणानां भरः समूहस्तत्यजे त्यक्तः । सर्वानलंकारामिजाङ्गादुत्तारयति स्मेत्यर्थः । इति किम् । तत्कारणमाह-ग़मणीयकस्य रमणीयताया मनोज्ञत्वस्य विधेः प्रकारस्य अवधे: सीमाया मे मम वपुषि शरीरे कृत्रिमया औपाधिक्या भूषया शोभया भूषणैर्वा । भूषाशब्देन भूषणान्यप्युच्यते । उक्तं तु प्राक्प्रतिपादितमास्ते । किमस्तु । न किमपीयर्थः । रमणीयस्य भावो रामणीयकम् । योपधाद्रुञ् ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy