SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ १ सर्गः ] हीरसौभाग्यम् । दयोः किमयमन्यतमोऽस्मिन्नागतस्त्रिदिवतः क्षितिपीठे । निष्कलङ्क इव विष्णुपदस्योपास्तिभिः कुमुदिनीदयितो वा ॥ १८९ ॥ दयोरश्विनपुत्रयोर्मये । उत्प्रेक्ष्यते - अयं हीरकुमाररूपः अन्यतमः एकः कश्चि त्रिदिवतो देवलोकादस्मिन् क्षितिपीठे पत्तनलक्षणे भूमण्डले आगतः किं समायात इव । अथ वा विष्णुपदस्य पुरुषोत्तमपादस्य उपास्तिभिः सेवाभिः कृत्वा निर्गतः कलङ्की लाञ्छनमपवादो वा यस्मात्तादृशः । उत्प्रेक्ष्यते - कुमुदिनीदयितः कैरविणीप्राणप्रियश्चन्द्रो वा क्षितौ पत्तनपृथिव्यां समागतः ॥ इति कुमाररूपदर्शनादिविचारः ॥ २३९ माद्यसि स्मर जगज्जयिनीभिर्हेतिभिः किमु हताश वशाभिः । संश्रिते हि चरितश्रियमस्मिंस्त्वन्मदोऽयमव केशिवदासीत् ॥ १८६॥ हे हताश, मूलादेव विगतां उच्छिन्ना आशा वाञ्छा यस्य ईदृशः हे स्मर कन्दर्प जगतां त्रयाणां भुवनानाम् । 'तात्स्य्यात्तद्यपदेश:' इति न्यायान्नाकिनागनागराणां त्रिजगजनानां जयिनी भिर्जयनशीलाभिर्वशीका रिकाभिः वशाभिस्तरुणीभिरेव हेतिभिः स्वामोघप्रहरणभूताभिः कृत्वा किं कथं माद्यसि मदमाकलयसि मत्तो भवसि । हि यस्मात्कारणात् अस्मिन् सासारिकविषयविमुखे हीरकुमारे चरितश्रियं चारित्रलक्ष्मीं संश्रिते सति अयं सर्वजगननविदितः प्रत्यक्षलक्ष्यस्त्वन्मदः यदहं युवतीरूपामोघशक्तिभिः कृत्वा हरिहरेन्द्र चतुराननादिकान् सर्वान् स्ववशीकरोमि इति तवाभिमानः अवकेशिवन्निष्फलतरुरिव आसीत् फलवन्ध्यो बभूव ॥ दैत्यमर्त्यमरुतां विजये त्वं साहसिक्यमथ मोह जहीहि । भूधरं हरिरिवाशनिनासौ संयमेन निहनिष्यति यत्त्वाम् ॥ १८७॥ हे मोह, अधायतन दिनात्प्रारभ्य त्वं दैया दानवा मर्त्या मानवा मरुतो देवास्तेषां विजये पराभवने, साहसिक्यं साहसकर्मसत्वं बलवत्तां वा जहीहि यज मुच । सहसा वर्तते इति साहसिकः । 'ओजः सहोम्भसा वर्तते' इतीकण | साहसिकस्य भावः साहसिक्यम् | 'अहो मदीयस्तव साहसिक्यम्' इति नैषधे । यत्कारणादसी हीरकुमार: संयमेन शुद्धचारित्रेण कृत्वा त्वां भवन्तं निहनिष्यति व्यापादयिष्यति मूलादुन्मूलयिष्यति । क इव । हरिरिवं । श्रथा पुरंदरः अशनिना वज्रेण कृत्वा भूधरं पर्वतं हन्ति चूर्णीकरोति ॥ संसृते व्रतमानिransit दुष्प्रवृत्तिमिव यत्त्यजति त्वाम् । निष्फला तदबलेव परम्यां सक्तमानसपतेरपमानात् ॥ १८८ ॥ हे ते संसार, यद्यस्मात्कारणात् व्रतरमायां संयमलक्ष्म्यां निरत आसक्तमना रक्तीभूतचेता असी हीरकुमारस्त्वां भवतीं जहाति । कामिव । दुष्प्रवृत्तिमिव । यथा महात्मा दुष्ट प्रवृत्ति वार्ता दुष्टं निन्द्यमाचरणं वा मुत्रति तत्तस्मात्कारणात् त्वं भवती
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy