________________
२३८
काव्यमाला |
कमनः कन्दर्पः । उत्प्रेक्ष्यते-- एतत्प्रत्यक्षं दृश्यमानं हीरकुमाररूपं परमन्यजन्मावतारभादन गृहीतवान् । किं कृत्वा । रुद्रस्य शंभोनेंत्रं तृतीयं भाले लोचनं तस्य शिखि न तस्य वहियत्वेन अमेर्विद्यमानलात् वहाँ निपत्य झम्पां दत्त्वा भस्मीभूय वा । कस्मातू । अङ्गायातिलोत्तमानान्न्याः वनन्दनाया यदभिलषणं वाञ्छनं कामक्रीडाचिकीर्षा तस्मादुद्भव उत्पत्तिर्यस्य तादृशो यः कोपः क्रोधः तेन वान्तं पूरितं चित्तं मनो यस्य तादृग्विधो यश्चतुराननो ब्रह्मा तस्य शापात् । यदुक्तं कुमारसंभवे - 'अभिलाषमुदीरिते. न्द्रियः स्वसुतायामकरोत्प्रजापतिः । अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदभूत ॥' इति । तथा नैषधेऽपि -- 'पद्मनन्दनसुतारिरंसुता ॥
अद्विजार्धघटनाङ्कितमूर्त्या व्रीडमाकलयता गिरिशेन । प्रैयरूपकवती तनुरेतत्कैतवात्किमुररीक्रियते स्म ॥ १८३॥
गिरिशेन ईश्वरेण एतस्य हीरकुमारस्य कैतवात्कपटात् । उत्प्रेक्ष्यते - प्रेयरूपकवती रमणीयत्वकलिता तनुः शरीरयष्टिः उररीक्रियते स्म अङ्गीकृता गृहीता प्रियरू पस्य भावः प्रैरूपकम् । मनोज्ञादित्वाद्रुण् । 'प्रेयरूपक विशेष निदेशैः' इति नैषधे । गिरिशेन किं कुर्वता । व्रीडं लनाम् । व्रीडशब्दः शब्दप्रभेदे अकारान्तोऽप्यस्ति । यथा'व्रीडायां भवे व्रीड:' इति । ' त्वयि स्मरत्रीडसमस्ययानया' इति नैषधेऽपि । आकलयता दधता । कया । अद्विजाया हिमाचलपुत्र्याः पार्वत्याः अर्धस्य शरीरार्धभागस्य या घटना योजना तयाङ्किता कलिता या मूर्तिः स्वशरीरं तया कृत्वा । 'सापीश्वरे - वति तद्गुणौघान् प्रसह्य चेतो हरतोऽर्धशंभुः । अभूदपर्णाङ्गुलिरुद्धकर्णा' इति नैषधे । अर्ध शंभोरित्यर्धशंभुरिति तद्वृत्तिः । तेन कारणेन तां खतनुं संत्यज्य ईश्वरेण जननयननिरीक्षणीया अपरा मूर्तिरङ्गीकृतेत्यर्थः ॥
त्यक्तपूर्ववपुषा निजयोषाविप्रयोगजनितान्तरदुःखात् । उर्वशीप्रियतमेन किमेतत्कैतवेन जगृहे तनुरन्या ॥ १८४ ॥
उर्वशीनामाप्सरास्तस्याः प्रियतमेन भत्री पुरूरवसा । 'पुरूरवा बोध ऐल उर्वशीरमणश्च सः' इति Šमीवचनात् । एतत्कैतवेन हीरकुमार मिषेण । उत्प्रेक्ष्यते - अपरा कुमारलक्षणा तनूर्मूर्तिर्जगृहे गृहीतेव । किंभूतेन उर्वशीप्रियतमेन । त्यक्तमुज्झितं पूर्व प्राचीनं पुरूरवोलक्षणं वपुः शरीरं येन । कस्मात् । निजस्यात्मनो निजा आत्मीया वा या योषा प्रियतमा उर्वशी अप्सराः । 'अप्सरः स्वप्सराः प्रोक्ता' इति शब्दप्रभेदे । 'वा तु जलोकोऽप्सरसः सिकतासुमनः समाः एते शब्दा बहुत्वे वा । 'इमा जलौकसः । इयं जलौकाः । इमा अप्सरसः । इयमप्सराः' इत्यादि लिङ्गानुशासने च । तस्य । विप्रयोगेण विरहेण जनितमुत्पादितं यदन्तरमन्तर्मनसि भवमन्तरङ्गमतिशायि इत्यर्थः । दुःखं तस्मात् । 'प्रियावियोगज्वलतादिवैलाम्' इति नैषधे । पुरूरवस उर्वशीवियोग: । तथा नलवर्णने - 'करोषि लजा गुरुमौलिमलदखी हठश्रीहरणादुदस्तो' इत्यपि नेपये ॥