SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २३६ काव्यमाला । क्ष्यत-इति हेतोः खमात्मीयं क्रमं चरणमधोतं सामिप्रक्षालितमौज्झनहाति म त्यक्तवती । इति किम् । हेतुमाह--यः पुमान् प्राप्तरूपविभवमधिगतसम्यग्रूपत्वेन शोभा पण्डितत्वेन वा संपदम् । 'विद्वान्सुधीकविविचक्षणलब्धवर्णा ज्ञप्राप्तरूपकृतिकघ्यभिरूपधीराः' इति हैम्याम् । वहते धारयति । अत्र जगति स जनः जडैः । डलयोरेक्यात् । जलैः पानीयः मूखैश्च सार्धमनुषङ्गी संगमवान् कृतसङ्गः कथं भवति । अपि तु कदाचिदपि स्यादेवेति विचारः ॥ स्फाटिकावनिषु वेश्मनि यान्त्या वीक्ष्य यावकपदानि परस्याः । मुग्धभृङ्गविहगैर्जलरोहद्रक्तपङ्कजधियेव दधावे ॥ १७६ ॥ वेश्मनि खगृहे स्फाटिकावनिषु स्फाटिकरत्ननिबद्धभूमीषु यान्त्या अर्थात्कुमारं दूटुमुत्सुकतया व्रजन्त्या अपरस्या अन्यस्यास्तरुण्याः यावकपदानि नवीनालक्तकरसा. द्राणि पदानि क्रमस्थापनानि वीक्ष्य विलोक्य मुग्धैरचतुरे ङ्गा भ्रमरा एंव विहङ्गाः पक्षिणस्तैर्दधावे धावितम् । उड्डीय गत्वा तदुपरिष्टादुपविष्टमित्यर्थः । उत्प्रेक्ष्यते-ज. लेषु सरःप्रभृतिपानीयेषु रोहन्त्युद्गच्छन्ति प्रादुर्भवन्ति इति जलरोहन्ति तादृशानि यानि रक्तपङ्कजानि शोणकमलानि कोकनदानि तेषां धिया बुद्ध्या श्रमेणेव ॥ काप्यलक्तकधियोत्सुकिता पत्पद्मयोरकृत चन्दनचर्चाम् । __ रक्तयोर्न सविधे प्रहितां खां चन्द्रिका शशभृता सखितापै॥१७७|| उत्सुकिता कुमारावलोकनरसेनोत्कण्ठिता कापि काचिदपरा लीलावती अलक्तधिया यावकरसभ्रान्त्या पत्पद्मयोः खचरणतामरसयोः चन्दनस्य श्रीखण्डद्रवस्य चर्चा विलेप. नम् । 'अङ्गरागो विलेपनं चार्चिक्यं समालम्भनं चर्चा स्यात्' इति हेम्याम् । अकृत कृतवती । उत्प्रेक्ष्यते - रक्तयोः खानुरागिणोः । 'रक्तं नील्यादिरजिते । कुङ्कुमेऽसज्यनुरक्त प्राचीनामलकेऽरुणे' इत्यनेकार्थः । स्वाभाविकारुणयोरिति तत्त्वम् । अर्थानिजो. परि रागं दधानयोः अनयोः पदपद्मयोः सविधे पावें सखिताय मैत्रीकरणाथै शशभृता चन्द्रेण प्रहितां प्रेषितां खामात्मीयां चन्द्रिका कौमुदीं न अपि तु ज्योत्स्नेव नकारो मौलार्थमेव वक्तीति । यथा नैषधे-'अनुभवति शचीत्थं सा घृताचीमुखाभिर्न सहसहचरीभिनन्दनानन्दमुच्चैः' इति । चन्द्रिका तु दन्तकान्तिरप्युच्यते । 'दशनचन्द्रि. कया व्यवभासितं हसितमासवगन्धि मधोरिव' इति रघुवचनात् । ततः खचन्द्रिका. मित्युक्तम् ॥ दर्शयन्त्यपरपद्ममुखी तं कापि पाणिमकरोन्निजमुच्चैः । व्योमपल्वलमिव स्मयमानोन्नालताम्रनलिनं प्रणयन्ती ॥ १७८ ॥ काचिदपरा अन्या पद्ममुखी अरविन्दवदना तं कुमारं दर्शयन्ती लोचनगोचरं का. रयन्ती सती निजमात्मीयं पाणिं हस्तमुच्चैः ऊर्ध्वमकरोच्चकार । उत्प्रेक्ष्यते-स्मयमानं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy