________________
५ सर्गः हीरसौभाग्यम् ।
२३६ अन्या परा कापि चकोरलोचना रभसेन कुनारविभावरसेनोत्सुकत्व, नाव. लयस्य विभ्रमतो भ्रान्तेर्नपुरं मजीरं निजस्यात्मनो निजे आत्नीये का भुजे बाही अ. जीघटत् घटयामास परिवृतवती । उत्प्रेक्ष्यते-भुजभवैर्विभवैः खबाहुसमुत्पन्नशोभातिशयः अभिभूतं पराजित सन्मृणालं कमलनालं शीलितुमान्निजजित्वरभुजमेव सेवितुमुपेतमागतमिव ॥
तद्वेषणरसोत्सुकचेताः काचनाध्वनि धृतश्लथबन्धम् ।
अम्बरं हरिणदृक्स्वकरेणालम्ब्य संचरति चन्द्रकलेव ॥ १७२ ॥ काचन हरिणेक्षणा तस्य हीरकुमारस्य यद्गवेषणं निवर्णनं तस्य रसो रागस्तेनोत्सुक. मुत्कण्ठितं चेतचित्तं यस्यास्तादशी सती अध्वनि पत्तनमार्ग पृतः कलितः श्वथः शिथिल: बन्धो बन्धनप्रन्थियेन तादृग्विधमम्बरं परिधानवस्त्रं खकरेण निजहस्तेन आलम्ब्य आश्रित्य । गृहीत्वेत्यर्थः । संचरति व्रजति । केव । चन्द्रकलेव । यथा शशिलेखा अम्बरमाकाशं खकरेण आत्मकिरणेन । जातिवाचित्वादेकवचनम् । आश्रित्य संचरति ॥
अन्ययार्धरचिंतात्मकलापापातिमौक्तिकभरै रभसेन ।
सृज्यते स्म विधये किमु लाजोत्क्षेपणा वरयितुर्बतलक्ष्म्याः ॥१७॥ अन्यया अपरया कयाचित्तरललोचनया रभसेन कुमारेक्षणात्मुकभावेन अर्धरचितः साभिप्रोतो य आत्मकलापः खस्य मणिमौक्तिकका बनमयमेखला तत्सकाशादासामस्त्येन पतन्तीत्येवंशीलानि निपातुकानि यानि मौक्तिकानि मुक्ताफलानि तेषां भरैः समूहैः कृत्वा व्रतलक्ष्म्याश्चारित्रश्रियाः क्रयितुः परिणेतुः कुमारस्य विधये आचारार्थ लाजोक्षेपणा अक्षतैः संवर्धनं मौक्तिकैर्वर्धापनमित्यर्थः । किमु मृज्यते । क्रियते परिणेता हिं. महलाई .सधववधूभिलाजरक्षतेमौक्तिकैर्वा वर्धाप्यते इति विधिः ।।
काचिदर्भकमपास्य धयन्तं यात्यवेक्षितुममुं खगवाक्षम् ।
वेश्मनि स्तननिपातिपयोभिर्जाह्नवीं जनयतीव नवीनाम् ॥ १७४ ॥ काचिदन्या युवती वेश्मनि निजमन्दिरे पयोधरकुम्भयोनिष्पतनशीलदविरलनिर्गलद्भिः पयोभिर्दुग्धधाराभिः । उत्प्रेक्ष्यते-नवीना नूतनां जाड़वीं गङ्गां जनयति उत्पा. दयतीव । करोतीवेति यावत् । किं कुवन्ती । अमुं हीरकुमारमवेक्षितुं विलोकयितुं ख. गवाक्षं निजनिकेतनसंवन्धिजालकं प्रति यान्ती गच्छन्ती । किं कृत्वा । धयन्तं ख. पयोधरपय: पिबन्तमर्भकं निजनन्दनमपास्य त्यक्त्वा रुदन्तमेव विहायेत्यर्थः ॥
प्राप्तरूपविभवं वहते यः स्यात्किमत्र स जडैरनुषङ्गी ।
अर्धधौ तमितरा म्वमितीवोत्कण्ठिता तरलदृकूममौज्झत् ॥ १७५ ॥ उत्कण्टिता कुनारदशनोबुकित चेता इतरा अपग तरलहक् चपललोचना । उत्प्रे.