________________
२३४
काव्यमाला।
तद्विभावनरसव्यवसाया नागवल्लिदलविभ्रमतोऽन्या । .कापि केलिकमलं निजवक्रस्पर्धयेव कवलीकुरुते स्म ॥ १६७ ॥ अन्या कापि कान्ता नागवल्यास्ताम्बूलीलताया दलानां पत्राणां विभ्रमतो भ्रान्तेः । बुद्धेरित्यर्थः । 'कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना' इति चम्पूकथायाम् । विभ्रमेण श्रान्तेति तहिपनके । केलिकमलं क्रीडापञ कवली रुते स्म । खादति स्मेत्यर्थः । किं. भूता कापि । तस्य कुमारस्य यद्विभावनं विलोकनं तस्य रसो रागः स एव व्यवसायो व्यापारोऽस्याः । उत्प्रेक्ष्यते-निजेनात्मीयेन वक्रेण वदनेन साध स्पर्धया संहर्षेणेव । विभूषाभिरीय॑येत्यर्थः ॥
काचन व्यधित काञ्चनकाञ्ची कण्ठपीठलुठितां रभसेन ।
इन्दुजां मिलितुमब्जपिशङ्गां यन्मुखाङ्गपितृसोममिवैताम् ॥१६॥ काचन नितम्बिनी रभसेन कुमारदर्शनौत्सुक्येन काञ्चनकाची कलधौतमेखला कण्ठपीठे गलकन्दले लुठितां विलम्बिताम् । क्षिप्तामित्यर्थः । व्यधित चकार।राभस्यान्मुक्काहारभ्रान्त्या मेखलां कण्ठे चिक्षेपेत्यर्थः । उत्प्रेक्ष्यते-यस्याः सीमन्तिन्याः मुखं वदनमेवाझं कायो यस्य यत्स्त्री(मुख)वपुषं पितरं तातं सोमं चन्द्र मिलितुं तातस्नेहादे. तामागतामन्जैरर्थात्सुवर्णकमलपरागः पिशङ्गां पीतां भूतामिन्दुजो रेवानदीमिव ॥
कापि मौक्तिकलतां खकटीरे विभ्रमादधृत सारसनस्य ।
वेश्मनीव रचितां रतिभर्तुः कुन्दकुङ्मलितवन्दनमाला ॥ १६९ ॥ कापि वरवर्णिनी सारसनस्य मणिमेखलाया विभ्रमाद्धान्तेः कुमारदर्शनोत्सुक्यात्वकटीरे निजकटीतटे। 'कलापो रसना सारसनं काञ्ची च सप्तकी, तथा-'श्रोणिः कलत्रकटीरं काञ्चीपदं ककुद्मतान्ति' द्वयमपि हैम्याम् । मौक्तिकलतां मुक्ताहारम् । अधृत परिदधौ । उत्प्रेक्ष्यते-रतिभर्तुः स्मरस्य वेश्मनि । गृहद्वारे इत्यर्थः ॥
हारचारिमकुचौ परया नो वाससातिरभसात्पिदधाते ।
माल्यशालिकलशद्वितयीव श्रेयसे पथि धृता व्रजतोऽस्य ॥ १७० ॥ परया अन्यया कयाचिन्महिलया हारस्य मुक्तालतायाश्चारिमा रमणीयता ययोर्हारेण रम्यत्वं वा ययोस्तादृशौ कुचौ स्तनी अतिरभसात्कुमारप्रेक्षणात्यौत्सुक्यानो इति निषेधे । 'अमानो नाः प्रतिषेधे' इति व्याकरणवचनात् वाससा वस्त्रेण कृत्वा पि. दधाते पिहितौ परोक्षाद्विवचनम् । उत्प्रेक्ष्यते-बजतो दीक्षाग्रहणार्थ गच्छतोऽस्य हीरकुमारस्य पथि मागें माल्येन पुष्पमालया शालते शोभते इत्येवंशीला कलशयो: कुम्भयोः द्वितयी द्वयीव श्रेयसे कल्याणकृते धृता पुरस्कृता ॥
नूपुरं निजभुजे रभसेनाजीघटत्कटकविभ्रमतोऽन्या । वैभवैर्भुजभरभिभूतं शालितुं किमु मृणालमुपेतम् ॥ १७१ ॥