SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः) हीरसौभाग्यम् । २३६ ___ रेणुभिः समुदडीयत रङ्गद्वाजिवारणरथाभ्युदिताभिः । दिक्पतीन्निगदितुं महमत्राभूतभाविनमियोत्सुकिताभिः ॥ १५६ ॥ रङ्गन्तस्त्वरितत्वरितमुपर्युपरि चलन्तो वाजिनो बहुविधाश्वा वारणा: झारितगजा रथाः पुरुषस्त्रीभृतस्यन्दना: तेभ्योऽभ्युदिताभिरुच्छ्रिताभिः रेणुभिधूलीभिः समुदडीबत उड्डीतम् । 'उदडीयत वैकृतात्करग्रहजादस्य विकखरखरैः' इति नैषधे । 'कटाही पष्ठिरेण्विषु' इति लिङ्गानुशासने रेणुशब्दस्त्रिषु लिङ्गेषु प्रोक्तस्तेनात्र स्त्रीलिङ्गो विव. क्षितः । उत्प्रेक्ष्यते-दिक्पतीनिन्द्रादिलोकपालान् अत्र जगति अभूतं न कदाचिदपि पूर्व संजातम् , तथा न भाविनमागामिकाले कदाचिदपि न भविष्यन्तम् , भूतश्चासौ भावी च भूतभावी, न भूतभावी अभूतभावी, तं महमर्थात्तत्कुमारदीक्षामहोत्सवं निगदितुमु. त्सुकिताभिरिवोत्कण्ठिताभिरिव ॥ तद्गजादिभरभारमसह्यं स्वेन वीक्ष्य निरपेक्षमहीन्द्रः । याचितेन जलजन्मभुवेवाचीकरत्कुलगिरीन्स्वसहायान् ॥ १५७ ॥ अहीन्द्रो नागराज: याचितेन भूमीभारधारणसंभागिनमर्थितेन जलजन्मभुवा विधात्रा का कुलगिरीन् भूभरधारिणोऽष्टौ मन्दरकैलाशहिमाचलादिकान् कुलाचलानचीकरत्कारयामास । 'यद्यपि कूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नमचलमनसां न चलति पुंसां युगान्तेऽपि ॥' इति सूक्ते । उत्प्रेक्ष्यते-खस्यात्मनो भूभारोद्धरणसहायानिव कारयति स्म । किं कृत्वा । तद्गजादीति । तस्मिन् कुमारसंयममहोत्सवसमये समानीतगजवाजिरथजनव्रजभवमुत्पन्नं भारं विविधं स्वेनात्मना निर्गता अपेक्षा परसहायता यत्र एवं यथा स्यात्तथा एकेनात्मना वोढुमुत्पाटयितुमसह्यमशक्यं वीक्ष्य दृष्ट्वा ज्ञात्वा ॥ इति तत्समयानीतगजाश्वरथलोकभारबाहुल्यम् ॥ .. तद्विलोकनरसस्तिमितानां चित्रविभ्रममिवोपगतानाम् । तत्पुरालयविलासवतीनां चेष्टितैरिति तदाविरभावि ॥ १५८ ॥ . तदा तस्मिन् समये तत्पुरमणहिल्लपत्तनं नगर तत्रालयो यासां तासां पत्तननिवासिनीनां विलासंवतीनां युवतीना मित्यमुना प्रकारेण चेष्टितर्विलसितैराविरभावि प्रकटीभूतम् । किंभूतानां विलासवतीनाम् । तस्य महामहपुरःसरं संयम प्रहीतुं प्रस्थितस्य कुमारस्य यद्विलोकनं निरीक्षणं तस्य रसेन रागेण स्तिमितानां निश्चलीभूतानाम् । उत्प्रेक्ष्यते-चित्रविभ्रममालेख्यविलासमुपगतानां प्राप्तानामिव । चित्रलिखितानामिव जातानाम् ॥ काचिदीक्षणरसेन बबन्धोद्वेष्टितं न निजकुन्तलहस्तम् । कौतुकादिव कलापिकलापश्रीकलापमनुमातुमनेन ॥ १५९ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy