________________
२३०
काव्यमाला।
चितं कृतम् । उत्प्रेक्ष्यते-सुपर्ववधूमिः अप्सरोभिरिव । 'स्वःस्वर्गिवध्वोऽप्सरसः' इति हैम्याम् । पुनरुद्धतनरैरुत्कटपुरुषैः पथि मार्गे मिथः परस्परं पृथु बह यथा स्यात्तथा मिथ्यायुद्ध मृथासंग्रामो निरमायि निर्मितम् । विवाहादिमहोत्सवेषु दाक्षिणात्या नरः पुरस्तात्प्रतिचतुष्पथं खड्गपाणय: परस्परं मिथ्यायुद्धं कुर्वन्तीति सौराष्ट्रमण्डलादी इ. श्यते । 'ततः प्रतीच्छ प्रसरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृषामृधं सादिवले कुतूहलानलस्य नासीरगते वितेनतुः ॥' इति नैषधे । किंवत् । तथ्यवत् । यथा . उद्धताः खड्गपाणयः पुरुषाः सत्यं युद्धं विदधते ॥
दुन्दुभिध्वनितिभिर्जयशब्दं तस्य बन्दिवदुदीरयतीव ।
तद्गुणानिव मुदा निगदन्ती दंध्वनीति मधुरापि न(नु)भेरी॥१५३॥ . दुन्दुभिर्मदनभेरी निखातो वा ध्वनितिभिर्भाङ्काररावैस्तस्य कुमारस्य जयशब्दः जयजयरावमुदीरयति प्रकटीकरोति इव वदतीव । किंवत् । बन्दिवत् । यथा महल पाठकः जयजयेति शब्दमुदीरयति । अपि पुनर्भेरी वाद्यविशेषो दध्वनीति अतिशयेन . शब्दायते । किंभूता । मधुरा श्रवणसुखका रिरावा ।. उत्प्रेक्ष्यते-मुदा हर्षेण तस्य कुमारस्य गुणान् धैयौदार्यगाम्भीर्यवैराग्यशमदमादिकान्निगदन्ती कथयन्तीव दंध्वनीति ॥ इति दीक्षाग्रहणप्रस्थानसमये कुमारपुरो गीतनृत्यवादित्रादिकथनम् ॥
क्षात्रियैरिव सुतैर्युवराजोऽलंकृतैः परिवृतोऽन्यकुमारैः ।
प्रस्थितिं पथि चकार कुमारोऽनल्पकल्पितमहेषु सगोत्रैः ॥ १५४ ॥ हीरकुमारः सगोत्रैः स्वजनैरनल्पा अतिशायिनो बहवो वा कल्पिता विरचिता ये महा उत्सवास्तेषु सत्सु पथि मार्गे प्रस्थितिं प्रस्थानं चकार । प्रचचालेत्यर्थः । किंभूतः । परिवृतः सहितः । कैः । अन्यैः दीक्षाग्रहणोत्सुकीभूतैरपरैः कुमारैः । किंभूतैः । अलंकृतैर्मणिवर्णादिभरणगणभूषितैः । क इव । युवराज इव । यथा क्षात्रियैः क्षत्रियसंब. न्धिभिः सुतैनन्दनैः परिवृतो युवराज: पथि प्रतिष्ठते । किंभूतो युवराजः । स खपितुः समग्रराज्यभारधुरंधरः । क्षात्रियैः सुतैः किंभूतैः । गां पृथ्वी क्षत्रियत्वेन ब्रायन्ते सम्यक्तया रक्षन्तीति गोत्रास्तैः । केषु सत्सु । प्रस्थानमङ्गला दिकादभ्रनिर्मितोत्सवेषु ॥
हेषितैर्हयगणस्य गजानां गर्जितैश्च रथचीत्कृतिभिश्च ।
रोदसी जनरवैरपि शब्दाद्वैतवादकलिते इव जाते ॥ १५ ॥ रोदसी द्यावापृथिव्यौ शब्दाद्वैतवादकलिते न विद्यते द्वैतो द्वितीयो वादो वदनं कथनं यत्र स शब्दानामद्वैतवादः शब्दाद्वैतवादस्तेन युक्ते इव जाते इव केवलम् । शब्दमये इव संपन्ने । कैः । हयगणस्य वाजिवजस्य हेषितैhषारवैः । 'हेषा हेषा तुरा- . णाम्' इति हैम्याम् । च पुन: कैः । गजानां हस्तिनां गर्जितैः गर्जारवैः । च पुनः रथानां शताङ्गानां चीत्कृतिभिः चीत्काररवैः अपि पुनर्जनरवैलोंककोलाहले: ॥