________________
२३२
काव्यमाला।
काचिद्विलासवती ईक्षणस्यात्तद्विलोकनस्य रसेन उद्वेष्टितं छोटितमपि निजस्यात्मनः कुन्तलहस्तं केशपाशं न वबन्ध । उत्प्रेक्ष्यते-कौतुकात्कौतूहलादनेन निजकुन्त. लहन्तेन कलापिनां मयूराणां कलापस्य बर्हस्य शिखण्डकस्य श्रीकलापं शोभासमुदयमनुमातुं सदृशीकर्तुमिव ॥ .
कापि वीक्षणरसत्वरमाणा स्रस्तमप्यधृत मूर्ध्नि न माल्यम् ।
यजितेन मदनेन निजौकः स्थायिनोज्झितमिवास्त्रमवेत्य ॥१६॥ कापि कामिनी सस्तमर्थान्मस्तकात्पतितमपि माल्यं पुष्पदाम मूर्षि वशिरसि नाधृत न धृतवती नारोपयति स्म । किंभूता। वीक्षणस्यार्थात्कुमारालोकनस्य रसेन रागेण त्वरमाणा शीघ्रं व्रजन्ती भवन्ती वा । उत्प्रेक्ष्यते-निजस्यात्मीयस्यात्मनो वा यदोको वशारूपं मन्दिरं तत्र स्थायिना वसनशीलेन । तथा येन कुमारेण जितेन मदनेन का. मेन उज्झितं त्यक्तमस्त्रं प्रहरणमिव अवेत्य ज्ञात्वा ॥ ..
हंसपादभरितार्धमहासीत्केशवम तमवेक्षितुमन्या ।
पूर्णरागिणमिह प्रविधातुं श्यामलाशयमलंभवतात्कः ॥ १६१ ॥ अन्या कापि खअननयना तं कुमारमवेक्षितुमर्थादुत्सुका सती हंसपादेन सिन्दूरेण भरितं पूरितमधे सामिभागो यस्य तादृशं केशवम सीमन्तमहासीत्तत्याज मुक्तवती। युक्तोऽयमर्थः । इह जगति श्यामलाशयं मलिनमानसं पिशुनम् । 'दयासमुद्रे स तदाशये. ऽतिथीचकार कारुण्यरसापगा गिरः' इति नैषधे । आशये. मनसीति तद्वृत्तिः । पूर्णो रागोऽस्त्यस्मिन्वा तादृशमतिशायि रागरङ्गत्तरङ्गितं कर्तुम् । क्रः पुमानलंभवतात् समर्थो भवतु । अपि तु न कोऽपीत्यर्थः ॥
भाति मुक्तमलिके रभसेनाप्यन्ययार्धकृतचन्दनचित्रम् ।
स्पर्धिजित्त्वरकलां शिशुसोमोऽध्येतुमागत इवैष मुखाब्जात्॥१६२॥ अपि पुनरन्यया अपरया कयापि कामिन्या अलिके खललाटपदे अर्धकृतं सामिर. चितं चन्दनस्य श्रीखण्डस्य तिलकं रभसेनौत्सुक्येन मुक्तं त्यक्तं ललाटे अर्धकृतमेव तिलक. ममोचि इत्यर्थः । उत्प्रेक्ष्यते-एषोऽर्धतिलकरूपः शिशुसोमो बालचन्द्र: मुखाब्जाधुवतीवदनकमलात्स्पर्धिनां खशोभाविद्वेषिणां जित्त्वरीं जयनशीलां कलां चातुरीमध्येतुं पठितुमभ्यसितुमागत; समेत इव ।।
पातुमप्रभु कुमारविभूषां स्वं दृशोर्द्वयमवेत्य कयाचित् ।
लोचने इव धृते इतरे स्वश्रोत्रयोः स्मितवतंससरोजे ॥ १६३ ॥ कयाचित्कान्तया खश्रोत्रयोरात्मकर्णयोः स्मिते विकसिते वतंससरोजे उत्तंसकमले धृते धारिते । क्षिप्ते इत्यर्थः । उत्प्रेक्ष्यते-इतरे अन्ये लोचने नयने इव कलिते । किं कृत्वा । अवेस ज्ञात्वा । किं कर्मतापन्नम्। दृशोर्द्वयं चक्षुषोतियम् । किंभूतम् । खमा.