________________
५ सर्गः] हीरसौभाग्यम् ।
२२७ तदरातित्वात् । वर्णशोभावन्तं स्वर्णकायत्वात् । गरुडविशेषणान्यपि ॥ इति दीक्षासमये कुमारारोहणार्थमानीततुरगवर्णनम् ॥
तत्र भावयतिनः पुलकोद्यत्कञ्चकानणुमहः कटकोघाः । मुक्तिपत्तनजिघृक्षुमनस्कौत्सुक्यभाज इव राजकुमाराः ॥ १४१ ॥ भूविहारिहयवाहनशस्यानेकमूर्तय इवोत्सवपश्याः । . वाहपृष्ठमधिरुह्य कुमारा आगमन्नपि परे जितमाराः ॥ १४२ ॥
(युग्मम्) तत्र तस्मिन्नवसरे तस्मिन् स्थाने वा जितमाराः खरूपसौन्दर्याभिभूतमदनाः अपरे अन्येऽपि भावयतिनः अभिप्रायेण चारित्रवन्तः अमी पालादिमाः कुमाराः आगमन् समागताः । किं कृत्वा । वाहानां जात्यतुरङ्गाणां पृष्ठमधिरुय अध्यास्य । उत्प्रेक्ष्यतेउत्सवं संयममहामहं पश्यन्त्यवलोकयन्तीति तादृश्यो भूविहारिण्यः क्षोणीचारिण्यः हयवाहनस्य एवं तस्य शस्याः श्लाघ्याः रम्यास्तथा अनेका बह्वयो मूर्तय: शरीराणि इव । किंभूताः कुमाराः । (इव यथा पृथ्वीपति) पुलको रोमाञ्चः स एवोद्यन् प्रकटीभवन् क. श्वकः संनाहो येषाम. तथा अनण महन्महः कान्तिः प्रतापश्व येषाम् । अथवा अनणभिर्बहुलैर्महोभिः किरणैः प्रतापैश्च युक्तानां कटकानां वलयानां सैन्यानामोघाः समूहाः येषाम् । पुनः किंभूताः मुक्तिः सिद्धिः सैव पत्तनं महानगर तजिघृक्षु प्रहीतुमिच्छु मनो येषाम् । समासान्तः कप् । पुन: किंभूताः । यत एव मुक्तिनगरजिघृक्षवस्तत एवोत्कण्ठां भजन्त इति । अथ वा औत्सुक्यं संयमोत्कण्ठां भजन्ते। पश्चात्कर्मधारयः । उत्प्रेक्ष्यतेराजकुमारा इव । यथा पृथ्वीपतिपुत्राः एवंविधा भवन्ति ॥ - पद्मिनीप्रियतमो दिवसादौ पावकादिव सहस्रमयूखैः । .. पूरुषैनिखिलमण्डलमध्यात्तत्क्षणादुपगतैः परिवत्रे ॥ १४३ ॥ : हीरकुमारो निखिलः समस्तो यो मण्डलो गुर्जरदेशस्तस्य मध्यादन्तरालात्तत्क्षणात्स एव कुमारस्य संयमग्रहणलक्षणः क्षणः प्रस्तावः उत्सवो वा तस्माद्धेतोरुपगतैरायातैः पूरुषैर्मानुषैरुपलक्षणात्साहचर्याद्वा स्त्रीभिश्च । 'पुरुषः पूरुषो नरः' इति हैम्याम् । परि. वने परिवृतः । क इव । पद्मिनीपतिरिव यथा भाखान् दिवसादौ प्रभाते पावकाहरुपगतैः समेतैः सहस्रसंख्याकैः किरणैः परिबियते । सूर्यो हि सायमस्तं गच्छन् खकिरणान् वही निक्षिपति । प्रभाते च गृह्णाति इति च कविसमयः । तथा च रघुवंशे'दिनान्ते निहितं तेजः सवित्रेव हुताशने' इति ॥
तत्र तद्रतमहोपगतानां मेलकः स्फुरति पञ्चजनानाम् । कौतुकेन निजशक्तिदिदृक्षो किनः किमिह कायनिकायः ॥१४४॥