SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २२६ . काव्यमाला। वृत्रशात्रवतुरङ्गममुख्यान्वैभवेन परिभूय तुरङ्गान् । स्कन्धकेसरसटाकपटात्तच्चिचामरमिवायमधत्त ॥ १३७ ॥ स्कन्धस्यांसस्य स्कन्धेऽते वा प्ररूढाना प्रादुर्भूताना केसराणा केशानां सटा श्रेणी कैसरनामानः सटास्तुरगस्कन्धकुन्तलाः तत्कपटादयं तुरङ्गः । उत्प्रेक्ष्यते-तस्य जयस्व चिहं लक्षणं चामरे वालव्यजनमधत्त बिभर्ति स्मेव । किं कृत्वा। वैभवेन खलक्ष्म्या - प्रशात्रवस्य शक्रस्य तुरङ्गम उच्चैःश्रवाः स एव मुख्यः प्रकृष्टः प्रथमो वा येषु तादृशा. स्तुरहान् परिभूय जिला ॥ रोहिणीकमलिनीरमणाश्वान्वोपरिस्थितिजुषः सुषमाभिः ।। निर्जिगीषुरिव निर्जरमार्गे फालकेलिमयमातनुते स्म ॥ १३८॥ . अयमश्वः निर्जरमार्गे आकाशे फालकेलिमुच्चैरुल्ललनस्य विशेषस्य विलासमातनुते स्म । उत्प्रेक्ष्यते-खस्यात्मन उपरि ऊ स्थितिं स्थानं जुषन्ते भजन्ते। ऊर्ध्वगामित्वेन आकाशगमनशीलत्वेन निजोपरिस्थितानित्यर्थः । तादृशान् रोहिण्याः कमलिन्याश्च रमगयोभत्रोः चन्द्रसूर्ययोः अश्वास्तुरङ्गमास्तान् सुषमाभिः अतिशायिशोभाभिः कृत्वा निजिगीषुर्निर्जेतुमिच्छुरिव ॥ . अर्जितानि गरुडस्य च गत्या निर्जयैर्हरिहरैश्च विभूत्या । उद्गिरन्निव यशांसि हरिर्यः फेनपिण्डपटलीकपटेन ॥ १३९ ॥ यो हरिस्तुरङ्गः फेनानां मुखनिर्गतकफलालानां पिण्डा बुद्धदाकारा गोलकास्तेषां पटली वृन्दं तस्य कपटेन व्याजेन यशांसि वकीर्तीरुद्गिरन्निव प्रकटीकुर्वनिवास्ते । किंभूतानि यशांसि । गत्या पवनवेगगमनेन गरुडस्य, तथा विभूत्या खलक्ष्म्या हरिहरेरिन्द्राश्वस्य उच्चैःश्रवसो, निर्जयैः पराभवनैरर्जितानि संचितानि ॥ आरुरोह जितजिष्णुहयं तं श्वैत्यतः फणिपतिं च जयन्तम् । वाजिनं कनकवैभवरा(भा)जं कैटभारिरिव नीडजराजम् ॥१४॥ स कुमारो वाजिनमश्वमारुरोह अध्यासामास । किंभूतं वाजिनम् । जितोऽर्थालक्षम्या पराभूतो जिष्णोरिन्द्रस्य हय उच्चैःश्रवा नाम तुरगो येन तम् । पुनः किं कुर्वन्तम् । श्वैत्यतः शुभ्रिमविभ्रमात्फणिपति शेषनागं जयन्तं परिभवन्तम् । पुनः किंभूतम् । कनकाना काश्चनानां वैभवः पर्याणखलीन प्रमुखभूषा तं भजतीति । क इव । कैटभारिरिव । यथा कृष्णो नीडे कुलाये 'मालो' इति प्रसिद्ध जाता नीडजाः पक्षिणस्तेषां राजा गरुडस्तमारोहति चढति । किंभूतं नीडजराजम् । जितो जिष्णुर्वासवो येन व. ब्रिजित्त्वात् । गत्या चातित्वरितगगनगमनेन हय इन्द्राश्वो येन । च पुनः किंभूतम् । फणिपति नागेन्द्रम।जातिवाचित्वादेकवचनम्। सर्वनागनायकान् जयन्तं पराभवन्तम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy