________________
६ सर्गः)
हीरसौभाग्यम् ।
२२५
प्राप्तुम् । उत्प्रेक्ष्यते-यानतया वाहनत्वेन बलिदस्युः कृष्णा सेवनां परिचरणामगमि प्रापित इव सेव्यते स्म । 'न्यादयो ण्यन्तनिष्कर्मा गत्यर्था मुग्ख्यकर्मणि । प्रत्ययं यान्ति दुह्यादिगाणेऽन्ये तु यथारुचि ॥ अनन्तेन कृष्णेन गोपी वनमगमि नीता। इत्युदाहरणम्' इति प्रक्रियाकौमुद्याम् ॥
यो दृशा भुवि पुनर्दिवि फालैर्नागवेश्मनि खुरोत्खननैश्च । .. स्फूर्तिभिस्तत इतस्त्रिजगत्यां स्वाङ्ककारमिव पश्यति जेतुम्॥१३४॥
यस्तुरङ्गमः स्फूर्तिभिर्विस्फूर्जनः इतस्ततः संस्फुरणैः कृत्वा त्रिजगत्यां त्रिलोक्यामपि । 'त्रिजगतीं पुनती कविसेविता' इति जिनप्रभसूरिकृतर्षभनम्रस्तोत्रे। इत्यत्रैकवचनात्रिजगत्यामप्येकवचनम् । त्रित्वेन त्रित्वसंख्यया वा उपलक्षिता जगती भुवनं त्रिजगतीति एवं संभाव्यते । तत्त्वं तु तज्ज्ञा एव विदन्ति । वाङ्ककार निजरहरफूर्जितजैत्रप्रतिमल्लं जेतुं पराभवितुमिव इतस्ततः सर्वत्रापि पश्यति । 'दूर गौरगुणैरहं कृतिभृतां जत्राङ्ककारे चरंति' इति नैषधे । कथं विलोकयति तदेव दर्शयति-भुवि पृथिव्यां दृशा विलोचनावलोकनेन । पुनर्दिवि गगनाङ्गणे फालैरुच्चैरुल्ललनलक्षणैः । 'सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरङ्गोऽपि गाम्' इति नैषधे । च पुनर्नागवेश्मनि पाताले खुरैः शफैरत्खननै: भूविदारणैः ॥
स्पर्धयार्कतुरगान्खजिगीषून्धूननेन शिरसः समराय ।
अङ्ककारविभवाभिभवाहपूर्विकाभिरयमाह्वयतीव ॥ १३५ ॥ - अयं तुरङ्गः अङ्ककारविभवानां जैत्रप्रतिमलसंपदाम् । 'शशाङ्ककलाङ्ककारः' इति नैषधे । अभिभवः पराभवनं तेनाहंपूर्विका गर्वावेशास्ताभिः कृत्वा शिरसो मस्तकस्य धूननेन कम्पनेन । खकन्धराया अधउर्ध्वकरणेनेत्यर्थः । उत्प्रेक्ष्यते-अर्कतुरगान् सूथरथरथ्यवाजिनः समराय संग्रामविधानाय आह्वयत्याकारयतीव । किंभूतानतुरङ्गमान् । स्पर्धया संहर्षेण खस्यात्मनः खमात्मानं वा जिगीषून् जेतुमिच्छून् ॥ .. आत्मफेनहरिचन्दनसान्द्रस्यन्दचर्चनविधाभिरिवार्चा । - पत्प्रहारभवमम्बुधिनेमेः खापराधमधरीकुरुते यः ॥ १३६ ॥
य: अर्वा तुरगः अम्बुधिनेमे मेः । उत्प्रेक्ष्यते-पदा चरणानां प्रहारैर्घातः ताडनैर्भवं 'पत्कजमिति' दर्शनात्यत्प्रहाररिति । अथ च । 'क्व तच्छयच्छायलवोऽपि पल्लवे' इति नैषधे । पदो लवः पल्लवः इति व्युत्पत्त्या तस्य नलस्य छायाया लवोऽप्यंशः क्व' इति तद्वत्तौ । स्वापराधं निजमन्तुमधरीकुरुते शामयतीव । काभिः । आत्मनः फेना मुखलालास्तद्रूपा हरिचन्दनस्य श्रीखण्डस्य सान्द्राः स्निग्धा ये स्यन्दा रसा द्रवा वा तैश्चचनविधाभिः पूजनप्रकारैः ॥