SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। __ भूषणानि आभरणानि। उत्प्रेक्ष्यते-स्फाराणि विकाशभाजि रत्नान्येव नयनानि तैरिति हेतोरिदमङ्गं कुमार कायं मृगयन्ते पश्यन्तीव । इति किम् । नोऽम्माकं भूषणानां सुषमा अतिशयिनी शोभा कि अधिका, अथवा मुषिता अपहृता आच्छिद्य गृहीता मन्मथ स्य कामस्य कान्तिः शोभा येन तादृशस्य कुमारस्य सुषमा शरीरातिशायि सौन्दर्य किंवा अधिका दीप्यते ॥ तद्विभूषणमणीनिकुरम्बैः स्पर्धिभिः प्रतिभटैरिव भूत्या। प्राप्य तन्मृधधरां दधिरे स्वज्योतिरङ्कुरसुरेन्द्रधनूंषि ॥ १३० ॥ भूत्या शोभया लक्ष्म्या वा स्पर्धिभिः स्पर्धनशीलस्तस्य कुमारस्य विभूषणानामलंकाराणां मणीनि कुरम्बै रत्नप्रकरैः तन्मृधधरां स कुमार एव संग्रामकरणोचितभूमी तां प्राप्य आसाद्य । उत्प्रेक्ष्यते-ज्योतींषि दीधितयः तेषामङ्कराः प्ररोहास्त एव सुरेन्द्रधनूंषि इन्द्रचापचकाणि दधिरे धृतानीव । करिव ! प्रतिभटैरिव । यथा संपदा स्पर्धमानैः प्रतिपक्षैः शत्रुभी रणभूमीलब्ध्वा परस्परं संग्रामकरणे कृते सुरेन्द्रचापोपमानि कार्मुकानि ध्रियन्ते ॥ भूरुहैविहसितैरिव कुञ्जः सौरभैरिव सरोरुहपुञ्जः । सान्द्रचन्द्रकिरणैरिव दोषा भूषणैरपुषदेष विभूषाम् ॥ १३१ ॥ एष कुमारो भूषणैरलकारैराभरणैः कृत्वा विभूषां शोभामपुषत्पुष्णाति स्म । क इव । कुञ्ज इव । यथा काननं वसन्तर्तुना विहसितैः कुसुमितेः भूरुहेवृक्षः कृत्वा शोभते । पुनः क इव । सरोरुहपुञ्ज इव । यथा पद्मप्रकरः सौरभैः परिमलैः कृत्वा शोभां लभते । पुनः केव । दोषेव । यथा रजनी सान्दैनयनानन्ददायिभिनीरन्धेश्चन्द्र स्य विधोः किरणैः र. श्मिभिः कृत्वा श्रियं पुष्णाति ॥ इति दीक्षासमये कुमारशृङ्गारवर्णनम् ॥ निर्जितेन यशसा सितभासा प्राभृतीकृतमिवैत्य नमस्तः । आनयन्नथ तुरङ्गममुष्यारोहणार्थमनघस्य मनुष्याः ॥ १३२ ॥ अथ शृङ्गारविधानान्तरं मनुष्या मानवाः अमुष्य कुमारस्यारोहणार्थमध्यारोढुं तुर जात्यवाजिनमानयनानयन्ते स्म । किंभूतस्यामुष्य । अनघस्य प्रशस्यस्य निष्पापस्य वा । उत्प्रेक्ष्यते-यशसा अर्थाद्यशःश्वत्यश्रिया निर्जितेन पराभूतेन सितभासा चन्द्रमसा नभस्त आकाशमण्डलादेत्यागत्य प्राभृतीकृतमीत्कुमारस्य ढौ कितमिव ॥ . . यन्नभस्वदतिपातिरयेन न्यकृतेन विनतातनयेन । तत्तुलां कलयितुं बलिदस्युः सेवनामगमि यानतयेव ॥ १३३ ॥ यस्य तुरगस्य नभवन्तं समीरणमतिपतत्यतिक्रामतीत्येवंशीलेन रयेण वेगेन । 'रयो वेगप्रवाहयोः' इत्यनेकार्थः । न्यकृतेन विजितेन विततानाम्नी अरुणगरुडयोर्जननी तस्यास्तनयेनात्रार्थाद्रुडेन तत्तुलां कुमारारोहणार्थमानीततुरङ्गमवेगमादृश्यं कलयितुं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy