________________
सर्गः]
२२३
हीरसौभाग्यम् । रामणीयकहृतापरचित्तं तत्कलत्रमवलोक्य युवेव । . जातरूपकलितो गुणशाली शृङ्खलः किमकरोत्परिरम्भम् ॥१२॥
तस्य कुमारस्य कलत्रं कटीम् , अर्थ वनिना स्त्रियं वा, अवलोक्य दृग्गोचरीकृय । उत्प्रेक्ष्यते-भङ्खलः । 'सा शृङ्खला पुंस्कटिस्था' । शृङ्खलशब्दस्त्रिलिङ्गः । रत्नजटितकनकंघटितकटिदवरकः परिरम्भमालिङ्गनमकरोत्किमु आलिङ्गति स्मेव। क इव । युवेव । यथा तरुणः पुमान् कस्यापि लघोः प्रौढीभूतं कलत्रं युवती परिरम्भते। किंभूतं कलत्रम् । रामणीयकेन रमणीयत्वेन खाभाविकसौन्दर्यण हृतानि ववशीकृतानि अपरेषां लक्ष. प्रेक्षकलोकानां कामिनां च चित्तानि मनांसि येन । किंभूतः शृङ्खलो युवा च । जातरूपेण सुवर्णेन कलितो हिरण्मयः । तथा जातमुत्पन्नं यदद्वैतं रूपं वपुःसुन्दरता तेन युक्तश्च । पुनः किंभूतः । गुणैः सुवर्णदवरकैः हेमतन्तुभिः शालन्ते इत्येवंशीलस्तैथितखात् । तथा गुणरौदार्यादिभिः शृङ्गारादिभिर्वा द्वासप्ततिकलागुणैर्वा शोभते इत्येवंशील: ॥
भूषणैः कनकरत्ननिबद्धैर्भूषितो व्यरुचदेष कुमारः।
मञ्जरीभरकरम्बितकायः कल्पसाल इव भूतलशाली ॥ १२७॥ एष हीरनामा कुमारः तदानीं कनकानि काञ्चनानि रत्नानि मणयस्तैनिबद्धै रचितैर्भूषणैराभरणैः कृत्वा भूषितोऽलंकृतः व्यरुचत् विराजते स्म । 'द्युयो लुङि' द्युतादिभ्यः परस्मैपदं वा स्यात् । 'युष्पादिद्युतादिलदितः परस्मैपदेषु' । श्यन्विकरणपुषादेर्युतादेलदितश्च परस्य च्लेरङ् स्यात्परम्मैपदेषु । अद्युतत् अद्योतिष्ट । व्यरुचत् व्यरोचिष्ट ।' इति प्रक्रियाकौमुद्यां साधना । उत्प्रेक्ष्यते-मञ्जरीणां कलिकानां भरः समूहस्तेन करम्बितः पूरितः कायः शाखाप्रशाखालक्षणं वपुर्यस्य तादृशो भूतले पृथ्वीपीठे शालते शोमते इत्येवंशील: । भूमीमण्डलोपगत इत्यर्थः । कल्पसाल: सुरतरुरिव ॥
दर्पणेष्विव गवेषयति खं भूषणेषु किरणाङ्करितेषु । . दर्पणार्पणविधाभिरमुष्मिन्निष्फलाभिरजनि खजनानाम् ॥ १२८ ।।
अमुध्मिन् हीरकुमारे स्वजनानां बन्धुवर्गलोकानाम् अथवा खस्य जनानामात्मीयलोकानाम्। सेवकानामित्यर्थः । दर्पणानामादर्शानामर्पणानि प्रदानानि। आत्मदर्शदर्शनानीत्यर्थः । तेषां विधाभिः प्रकारैः निष्फलाभिर्निरर्थकाभिरजनि जाता। अमुष्मिन् किं कुर्वति । किरणैः कान्तिभिः कृत्वा अंकुरितेषु प्ररोहसहितेषु जातेषु भूषणेवाभरणेषु खमात्मानम् । [स्वरूपमित्यर्थः ।] गवेषयति विलोकयति । केष्विव । दर्पणेष्विव । यथा कश्चिन्मुकुरेषु स्वं निभालयति ॥
दीप्यते किमधिकं सुषमा नोऽमुष्य वा मुषितमन्मथकान्तेः । भूषणानि मृगयन्त इतीव स्फाररत्ननयनैरिदमङ्गम् ॥ १२९ ॥