SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २२२ काव्यमाला। भारसासहितया जितशेषः किं श्रितो वलयमस्य विभाति । मोहशूरमसुभिः प्रवियोज्यानेन वीरवलयं विधृतं वा ॥ १२३ ॥ __ अस्य हीरकुमारस्य वलयं कनककटकः विभाति । उत्प्रेक्ष्यते-भारस्य क्षमादेभविनि भूतोपचारात्सूरिपदादेर्वा सासहितया सहनशीलत्वेन । भृशं सहते इति सासहिः । 'अहिर्महीगौरवसास हिर्यः' इति नैषधे । सास हिश्चाचलि: पापतिर्वावदिरित्यादय इकारान्ता निपातिताः-इति तद्वत्तिः । जित: पराभूतः शेषो नागेन्दः । किं संश्रितः । अथ ' वा मोहनामानं वीरं सुभटममुभिः प्राणैः प्रवियोज्य पृथकृत्वा। निहत्येत्यर्थः । वीरवलयं . ' सुभटत्वसंसूचकः कटको विधृतं धारितमिव वा ॥ योगिनेव दधतात्मनि मुद्रामूर्मिकां च दधताम्बुधिनेव । । फुल्लपल्लवविलासजुषा तत्पाणिनाध्रियत कांपि विभूषा ॥ १२४ ॥ तत्पाणिना कुमारहस्तेन काप्यपूर्वा अनिर्वचनीया शोभा अध्रियत धृता । किंभ तेन तत्पाणिना । फुल्ला विनिद्रीभूता ये पल्लवाः किसलयानि तेषां विलास लीलां जुषते भजते । तत्पाणिना किं कुर्वता आत्मनि स्वस्मिन्विषये मुद्रां साक्षरोर्मिकां वहता। केनेव । योगिनेव । यथा योगभाजा मुनिना आत्मनि विपये योगमुद्रा. उह्यते । 'मुद्रातो लभते मूल्यं विमुद्रः कार्यनाशकः । राजा मुनिश्च लेखश्च कोशो मुष्टिश्च पञ्चमः ॥' इयं तु स्वाभाविकी मुद्रा च पुनर्वाङ्मनसां योगो रुन्धनं नियन्त्रणं विद्यते यस्य स मुनिर्मुद्रामिङ्गिताकारविशेषम् । पुनः किंभूतेन । दधता बिभ्रता । काम् । ऊर्मिकां निरक्षरमङ्गुलीयकम् । केनेव । अम्बुधिनेव । यथा समुद्रेण ऊर्मय एवोर्मिकास्तरङ्गा धीयन्ते ॥ पाणिना विरुरुचे पविरोचिश्चापचक्रविलसत्कटकेन । गन्धसिन्धुरतुरङ्गशताङ्गालंकृतेन जगतीपतिनेव ॥ १२५ ॥ पाणिना अर्थादधिकाराद्वा कुमारहस्तेन जगत्याः पृथिव्याः पत्या भव राज्ञेव वि. रुरुचे क्षोभितम् । किंभूतेन पाणिना राज्ञा च । पवीनां वज्ररत्नानां रोचींषि कान्तय एव चापचक्राणि धनुर्मण्डलानि तैर्विलसन् दीप्यमानः कटको वलयं यस्य । 'वृता वि. भूषा मणिरश्मिकार्मुकैः' इति नैषधे । तथा विविधरत्नप्रभासंवलित शक्रधनुरिति कविसमये प्रसिद्धिः-इति नराम् । अथ च वज्रनामा आयुधविशेषस्तथा कान्तियुक्तैर्धनुश्वकैः प्रहरणैश्च विस्फुरद्विशेषेण प्रतिपक्षलक्षपराभवनप्रकारेण विशिष्टतया खखामिभक्तिमत्त्वेन वा स्फुरदितस्ततो जिष्णुतया भूमण्डलं स्वखाम्यायत्तं कुर्वन् कटकं सैन्यं यस्य । पुन: किंभूतेन । गन्धसिन्धुरतुरङ्गशताङ्गालंकृतेन अर्थादाकृतिभूतैः गन्धसिन्धुरो गन्धहस्ती तथा तुरङ्गः सपर्याणिताश्वः तथा शताङ्गो रथस्तैरलंकृतेन विविधलक्ष्मीभूतैविभूषितेन । पक्षे गन्धगजेन्द्रा विविधजातीयवाजिनः पुष्परथ-योग्यारथ-अध्वरथकर्णीरथ-प्रमुखरथास्तैरलंकृतेन कलितेन ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy