________________
२२८.
काव्यमाला ।
तत्र व्यतिकरे तस्य कुमारस्य व्रतस्य संयमस्य महोत्सवे उपगतानां समागतानां पञ्चजनानां लोकानाम् | 'मर्त्यः पञ्चजनो भूस्टक्' इति हैम्याम् । मेलक: संगमः स्फुरति । 'मेलके सङ्गसंगमाः' इति हैम्याम् । तथा 'जगत्रयीनायकमेलकेऽस्मिन्' इति नैषधे । उत्प्रेक्ष्यते — कौतुकेन कुतूहलेन कृत्वा निजस्यात्मनः । 'श्रुत्वा निजं भीमजया 'निरस्तम्' इति नैषधे । निजशब्देनात्मा । शक्ति सामर्थ्य दिदृक्षोईटुमिच्छोर्नाकिनः कस्यचिद्देवस्य इहास्मिन् प्रस्तावे स्थाने वा कायनिकायो देहव्रजः किमु । निकायस्तु सधर्मिणां समुदायः । 'तथास्या हेर्भूयः फगसमुचितः काययष्टीनिकायः' इति नैषधे ॥
निष्पतन्मदविलोलकपोलास्तत्पुरः समचलन्द्विरदेन्द्राः ।
विन्ध्यभूभ्र इव निर्झरशाली जङ्गमः करणबंहिममाली ॥ १४५ ॥
तत्पुरः हीरकुमारस्याग्रे द्विरदेन्द्रा गजराजाः समचलन् संचरन्ति स्म । किंभूताः । निष्पतन्निरन्तरं निःसरन् यो मदो दानाम्भस्तेन विलोलाश्चञ्चलाः कपोला गण्डस्थलानि येषाम् । उत्प्रेक्ष्यते - विन्ध्यभूध्र इव विन्ध्याचल इव । किंभूतः । जङ्गमः संचरन् । पुनः किंभूतः । निर्झरैर्निः सरत्सलिलैः शालते शोभत इत्येवंशीलः । पुनः किंभूतः । करणानां शरीराणां बंहिमा बाहुल्यं मलते धारयतीत्येवंशीलः । 'मलि मात्र धारणे' धातुः । बहुरूपवानित्यर्थः ॥
स्यन्दनैः स्यदविगानितवातैस्तत्पुरोऽङ्कविलसज्जनजातैः ।
पुस्फुरे सुरसमूहसनाथैः क्ष्मागतैरिव मरुद्रथसार्थैः ॥ १४६ ॥
तस्य कुमारस्य पुरोऽग्रे स्यन्दनै रथैः पुस्फुरे दिदीपे । किंभूतैः स्यन्दनैः । स्यदेन वेगेन विगानितोऽवगणितो वातः पवनो यैः । ' स्यदझाङ्कारितपत्रपद्धतिः' इति नैषधे । पुनः किंभूतैः । अङ्के क्रोडे रथोत्सङ्गे विलसन्तः शोभमाना जना मनुष्यास्तेषां जातं समूहो येषु । उत्प्रेक्ष्यते— क्ष्मागतैर्भूमण्डले समेतैः सुराणां देवानां समूहेन गणेन सनाथैः सहितैर्मरुद्रथसाथैः निर्जररथवृन्दैरिव ॥
स्वर्णपल्ययनपल्लविताङ्गास्तत्पुरः प्रविचलन्ति तुरङ्गाः ।
तचुरङ्गविजिताः शशिभास्वद्वाजिनः किमु निषेवितुमेताः ॥ १४७ ॥
तस्य कुमारस्याग्रे तुरङ्गाः प्रविचरन्ति । किंभूताः । स्वर्णस्य हेत्रः पल्ययनं पर्याण तेन पल्लवितं मण्डितमङ्गं कायो येषाम् । उत्प्रेक्ष्यते - तेन हीरकुमारारोहणार्थमानीतेन तुरङ्गेणाश्वेन विजिताः खश्रिया पराभूताः सन्तो निषेवितुमर्थात्तमेवाश्वमुपासितुमेता आगताः । शशिनः चन्द्रस्य भाखतः सूर्यस्य वाजिनोऽश्वा इव ॥
मागधा मधुरमङ्गलवाचः प्रोच्चकैरुदचरन्पुरतोऽस्य । आह्वयन्त इव दर्शयितुं किं दिमहेन्द्रनिवहं महमेनम् ॥ १४८ ॥