SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः] हीरसौभाग्यम् । २१९ यस्य कुमारस्य उपभ्र भुवोर्मध्ये समीपे चान्दनश्चन्दनसंबन्धी बिन्दुर्वृत्ततिलकं ब. भासे शोभते स्म । उत्प्रेक्ष्यते-अङ्गजः स्मरः कमनः । 'कलाकेलिरनन्यजोऽङ्गजः' इति हैम्याम् । तथा 'अङ्गजो मन्मथे सुते । मदे केशे' इत्यनेकार्थः । स एव भटो वीरस्तं प्रणिहन्तुं यमातिथिं कर्तुं नासिकैव नलिकागुलिकाक्षेपणोपकरणं 'बन्दूकहाथनाली' इति लोकप्रसिद्धा । तथा 'नलिके न तदुच्चनासिके त्वयि. नालीकविमुक्तिकामयोः' इति नैषधे । नासा नलिकेव । तया कृत्वा मोक्तुमनसा क्षेप्नुकामेन इयं प्रत्यक्षलक्ष्या गुलिकेव । धृता । ‘सीसागोली' इति प्रसिद्धा ॥ चापलस्य नियमोऽभ्युपगम्योऽतःपरं द्युनिशमत्र युवाभ्याम् । एतदालपितुमञ्जनरेखा कल्पिता नयनयोरिव तस्य ॥ ११२ ॥ तस्य हीरकुमारस्य नयनयोर्नेत्रयोरञ्जनस्य कजलस्य रेखा कल्पिता । लोचने अअिते इत्यर्थः । बालत्वादथ वा महोत्सवानिर्मिता रेखा । किं च विवाहादी तरुणानां वृद्धानां पुरुषाणामपि चक्षुषोरञ्जनरेखा क्रियते इति लोकरूढिरपि स्थितिश्च । उत्प्रेक्ष्यते--एत. दत्रैव कथ्यमानमालपितु वक्त मिव । तदेवाह-हे नयने, अतःपरम् अद्यतनदिवसादारभ्य युनिशं दिवारात्री चापलस्य चटुलताया नियमो निषेधः युवाभ्यामभ्युपगम्यः अङ्गीकरणीयः । कदाचिदपि चापल्यं न विधेयमिति भावः ॥ उत्पलाजकुमुदादिमदस्यून्यद्विलोचननृपौ परिभूय । सालयोः सुखमिवाञ्जनरेखानीलरत्नकृतयोर्वसतः स्म ॥ ११३ ॥ यस्य कुमारस्य विलोचने नयने एव नानी ययोस्तौ तादृशौ नृपौ राजानौ उत्पलं नीलकमलं अब्जं पद्मं कुमुदं श्वेतकमलं तान्यादिमानि प्रथमभवानि येषां तादृक्षान् दस्यून् विपक्षान् परिभूय जित्वा अञ्जनरेखारूपैनीलरत्नैर्हरिन्मणिभिः कृतयोः सालयोः सुखं यथा स्यात्तथा क्रियाविशेषणम् । उत्प्रेक्ष्यते-वसतः स्म अतिष्ठतामिव ॥ अथ वा । यद्विलोच. ननृपौ कुमारनयननामराजो सालयोः प्राकारयोर्मध्ये सुखं शर्मणा यथा स्यानथा वसतः तिष्ठतः स्म। किंभूतयोः सालयोः। अञ्जनरेखारूपाणि यानि नीलरत्नााने मरकतमणयः तैः कृतयोर्निष्पादितयोः । उत्प्रेक्ष्यते-उत्पलानि कुवलयानि अब्जानि कमलानि कुमुदानि कैरवाणि तान्यादिमानि प्रथमानि येषां तादृक्षान् दस्यून् शत्रून् परिभूय निर्जित्येव सुर्ख वसतः । येन सर्वेऽप्यरयोऽभिभूय वशीकृताः स सुखं वसतीति ॥ भृङ्गसंगतवतंससरोजे तस्य कर्णयुगले शुशुभाते । विग्रहीतुमनसी नयनाभ्यामागते किमितरेतरवैरात् ॥ ११४ ॥ तस्य कुमारस्य कर्णयुगले श्रवणद्वन्द्वे भृङ्गाभ्यां मधुपानागतभ्रमराभ्यां संगते संयुक्त वतंससरोजे कर्णपूरकमले शुशुभाते रेजतुः । उत्प्रेक्ष्यते-इतरेतरेण परस्परं वैराद्विरोधानयनाभ्यां नेत्राभ्यां साध विग्रहीतुमनसी योद्धकामे किमागते पार्श्वे संप्राप्ते ॥ 2पा पारभूय ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy