________________
२१८
काव्यमाला।
कनकस्य हेम्नः पट्टिका भूषणविशेषः कोऽपि ललाटस्य । नलस्य भाले पट्टिका । तथा दमयन्त्या अपि । 'धृतैकया हाटकपट्टिकालके' । स्त्रीपुरुषयोरपि पट्टिकाख्य आभरणविशेष:-इति नैषधे । अधुना तु स्तम्भतीर्थद्वीपादौ लोकप्रसिद्ध्या 'असावउ' इति ज्ञायते । तदपि बहुतिलकमयं ललाटाभरणमर्भकविभोः कुमारेन्द्रस्य अलीकमण्डलं भालस्थलमलंकुरुते स्म भूषयामास । उत्प्रेक्ष्यते-चिहुराः केशाः एवाम्बुधरा मेघा. स्तेषां भ्रमेण भ्रान्या बुद्ध्या निकटे समीपे विलुठन्ती तिष्ठन्ती मिलन्ती च हादिनी विद्युदिव । 'चिकुराश्चिहुरा' इति शब्दप्रभेदे ॥
दिद्युते मणिकरम्बितयास्ये शातकुम्भकृतपट्टिकयास्य । .
खैरमात्मन इवाननलक्ष्म्या निर्मितेन वरणेन निवस्तुम् ॥ १०८॥ अस्य कुमारस्य आस्ये मणिभिः रत्नैः करम्बिक्त्या खचितया शातकुम्भेन कनकेन । कृतया निर्मितया पट्टिकया दिद्युते । उत्प्रेक्ष्यते-आत्मनः स्वस्य खैरं स्वेच्छया नि-. वस्तुं वासार्थ स्थातुमाननलक्ष्म्या निर्मितेन रचितेन वरणेन प्राकारेणेव । प्राकारस्यार्थोऽप्रे वक्ष्यते । तस्मादन्यापतद्वयी(?) ।। पाठान्तरे उत्प्रेक्ष्यते-मुखस्यार्थात्कुमारककस्य इन्दुश्चन्द्रः, पद्मानि कमलानि, मुकुरा दर्पणास्तेषामभिभावेन पराभवनेन उद्भूतं साक्षात्प्रकटीभूतं नूतं नवीनं महः प्रतापस्तेनेव वा ॥ ,
भालमण्डलममण्ड्यत राजज्जातरूपतिलकेन तदीयम् ।
तस्थुषात्र चरणक्षणवीक्षाकाङ्क्षिणाल्पवपुषांशुमतेव ॥ १०९॥ भालमण्डलं ललाटपट्टः राजन् शोभमानः जातरूपस्य खर्णस्य तिलविशेषकस्तिलक: तेनामण्ड्यत भूषितम् । उत्प्रेक्ष्यते-चरणस्य चारित्रस्य क्षणो महोत्सवः तस्य वीक्षा दर्शनं काइतीत्येवंशीलेन अभिलाषकेण, तथा अल्पं लघु वपः शरीरं यस्य तादृशेनात्र भाले तस्थुषा अर्थात्समेत्य स्थितवता अंशुमता भास्करेणेव ॥
यस्य भालतलचन्दनबिन्दोर्दम्भतो वदनकैरवबन्धुः ।
कोपनां प्रियतमामिव तारामानुकूल्यविधये व्यधिताके ॥ ११० ॥ यस्य कुमारस्य वदनकैरवबन्धुर्वक्रचन्द्रमा भालतले ललाटे कृत: श्रीखण्डस्य मण्डलाकारतिलकबिन्दुः तस्य दम्भतश्छलात्कोपनां चण्डामत्यमर्षणां तथा प्रियतमामतिशयेन वल्लभां तारां कामपि कान्तां तारिकाम् । तस्य तारापतित्वात् ।उत्प्रेक्ष्यते-आनुकू. ल्यविधये खानुकूलीकरणप्रकाराय अङ्के निजोत्सङ्गे व्यर्धित कृतवानिव । 'अचुम्बि या चन्दनबिन्दुमण्डली नलीयवकेण' इति नैषधेऽपि ॥
यस्य चान्दन उपभ्र बभासे बिन्दुरङ्गजभट प्रणिहन्तुम् ।
नासिकानलिकया गुलिकेयं येन मोक्तुमनसा विधृतेव ॥ १११ ॥ १. 'इन्दुपद्ममुकुराद्यभिभावोद्भूतनूतमहसेव मुखस्य' इति पाठान्तरम्.