SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २२० काव्यमाला। श्रोत्रपत्रयुगमाश्रितवत्या दिद्युते मणिवतंसिकयास्य । अचिषेव वदनान्तरमान्त्या पिण्डभावमितया स्थितयास्मिन्॥११५॥ अस्य कुमारस्य श्रोत्रे कर्णावेव पत्रे तयोर्युगं द्वन्द्वमाश्रितवत्या भजन्त्या मणिवतं. सिकया रत्नोत्तंसेन । 'विदर्भपुत्रीश्रवणावतंसिका' इति नैषधे । दिद्युते शोभितम् । उस्प्रेक्ष्यते-वदनान्तर्मुखमध्ये अमान्त्या बाहुल्यात्स्थातुमशक्नुवत्या अर्चिषा कान्त्येव । अर्चिः कान्तिवाची । स्त्रीक्लीबलिङ्गः । 'रोदोर्चिषीनामगुणवयट अयट्' इति लिङ्गानुशासने । किंभूतया अर्चिषा । पिण्डभावं पिण्डतामितया प्राप्तया । पिण्डीभूय स्थित येत्यर्थः । पुनः किंभूतया । अस्मिन् कुमारकर्णे स्थितया वसन्त्या ॥ मन्महे सकलशीतलभासां सार्वभौममिदमाननचन्द्रम् । .. कुण्डलच्छलतमीरमणाभ्यामन्यथा कथमुपास्यत एषः ॥ ११६ ॥ इदमाननचन्द्रममुष्य मुखमेव चन्द्रं विधुं सकलाः समस्ता · ये शीतलभांस: चन्द्र मसः तेषां सार्वभौमव्यतिकरेण कुण्डलयोः कर्णाभरणयोः छलात्कपटात्तमीरमणाभ्यां चन्द्राभ्यामेष इदमाननचन्द्रः कथं केन प्रकारेण उपास्यते सेव्यते ॥ कुण्डले कलयती प्रतिबिम्बे गण्डयोर्वहति हीरकुमारः । क्रोधमुख्यचतुरात्मविपक्षान्भेत्तुकाम इव चक्रचतुष्कः ॥ ११७ ॥ हीरकुमारः कुण्डले कर्णवेष्टिके वहति धारयति । कुण्डले किं कुर्वती । गण्डयोः कुमारस्यादर्शोपमगल्लयोः कपोलयोः प्रतिबिम्बे प्रतिमे केलयती बिभ्रती । उत्प्रेक्ष्यतेक्रोधः कोपो मुख्यः प्रकृष्टः प्रथमो वा येषु तादृशाः। क्रोधमानमायालोभाभिधानाश्चत्वारः चतु:संख्याकाः कषाया एवात्मनः खस्य विपक्षाः शत्रवस्तान् । चतुःकषायद्वेष्यानित्यर्थः । भेत्तुकामो वैरादेककालमेव हन्तुमनाः सन् चक्राणामायुधविशेषाणां चतुष्कं चतुष्टयमिव बिभर्ति ॥ व्यालवल्लिदलखण्डनजन्मा शोणिमाधरदले विललास । एतदीयहृदयादनुरागो निःसरन्बहिरिव स्थित एषः ॥ ११८ ॥ अधरदले कुमारस्याधरोष्टपत्रे शोणिमा रक्तता । 'वर्णदृढादिभ्यः ष्यच्च' । वर्णविशेषार्थेभ्यो दृढादिभ्यश्च व्यञ् स्यात् , इमनिज्वा भावार्थे । 'शौक्लयं शुक्तिमा, दार्य द्र. ढिमा, लावण्यं लवणिमा।' इति प्रक्रियाकौमुद्याम् । विललास बभासे । किंभूतः शोणिमा। व्यालवल्लया नागरवल्लया । 'ताम्बूलवल्ली ताम्बूली नागपर्यायवल्लयपि' इति हैम्याम् । दलानां पत्राणां खण्डनाचर्वणाजन्मोत्पत्तिर्यस्य । उत्प्रेक्ष्यते-एतदीयात्कुमारसंबन्धि हृदयान्मनसः । 'हृदयं मनो वक्षश्च स्तनान्तरं हृत् हृदयम्' । तथा 'हृच्चेतो हृदयं चित्तम्' इति द्वयमपि हैम्याम् । निःसरनिर्गच्छन्नेष प्रत्यक्षो बहिःप्रदेशे अधरोष्ठे स्थित इव ॥ १.२. कलयती इति नुम्रहितः प्रयोग: 'शपश्यनोनित्यम्' इति सूत्रविरुद्धः.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy