________________
२१४
काव्यमाला ।
कारयामास । किंभूतान् । सहोपवीतेन यज्ञसूत्रेण वर्तन्ते ये । पुनः किंभूतान् । कृतो निर्मितो वेदानां निनाद उच्चारो येस्ते । पश्चात्कर्मधारयः । पुनः किंभूतान् । राजहंसवद्गच्छन्तीति । पुनः किंभूतान् । कमण्डलु: कुण्डिका पाणौ हस्ते येषाम् । 'कुण्डिका तु कमण्डलुः' इति हैम्याम् । ततः कर्मधारयः । पुनः किंभूतान् । सुवाणीन् शोभना वाचो येषां ते । उत्प्रेक्ष्यते-भूचरान् क्षोणीचारिणः विधेब्रह्मणोऽनुवादा अनुवदन्ति सदृशीभवन्तीति स्वरूपाणीव । ब्रह्मणो ब्राह्मणत्वेन सोपवीतता वेदककर्तृत्वाद्वेदोच्चारित्दं कम-. ण्डलकरत्वं सुवाक्त्वं च युक्तम् ॥
आत्मकामितमुखानिव मूर्तान्पुष्पपल्लवफलाक्षतपुञ्जान् ।
तत्पुरोऽयमुपहृत्य सगोत्रैः पृच्छति स्म चरणस्य मुहूर्तम् ॥ ६२ ॥ . अयं हीरकुमारः सगोत्रैः खजनैः समं चरणस्य चारित्रस्य मुहूर्त पृच्छति स्म । किं कृत्वा । उपहृत्य ढोकयित्वा । कान् । पुष्पाणि कुसुमानि, पल्लवाः किशलयानि, फलानि तरुसस्यानि, अक्षता लाजा अक्षततण्डुला वा, तेषां पुमान् व्रजान् । कथम् । तत्पुरस्तेषां मौहूर्तिकानामग्रे । उत्प्रेक्ष्यते-आत्मनः खस्य कामितानामभीप्सितपदार्थार्ना मुखान् प्रारम्भानिव ॥
पूर्वनिर्मितपरस्परत निश्चितोच्चपदसंपदुदकैः । ,
तैरथौगत महोदयसद्मद्वारवद्रतदिनं पृथुकेन्दोः ॥ ९३ ॥ अथ प्रश्नानन्तरं तेज्यौतिषिकैर्वतदिनं संयमग्रहणवासरः औच्यत कथितम् । किंवत् । पृथुकेन्दोः कुमारचन्द्रस्य महानुदयो मोक्षो वा महोदयः स एव सद्म गृहं तस्य द्वारवद्वारमिव । तः किंभूतैः । पूर्व प्रथमं निर्मितः कृतः परस्परमन्योन्यं तकों दोषरा. हित्यग्रहगोचरांशोच्चनीचादीनां विचारो यः । पुनः किंभूतः । निश्चितो निश्चयं नीतो निर्धारितोऽर्थात्कुमारस्यैव उच्चस्यातिशयिनः पदस्य गणधरत्वलक्षणस्य संपदो लक्ष्म्याः उदर्कः उत्तरकाले फलं यः ॥
वर्णरूप्यमणिमौक्तिकदानैरीश्वरानिव विधाय विधिज्ञः ।
निश्चितव्रतमुहूर्तदिनस्तान्वर्णिनः स विससर्ज कुमारः ॥ ९४ ॥ स हीरकुमारः वणिनो ब्राह्मणानधिकारान्मौहूर्तिकान् विससर्ज यथागतं प्रेषीत् । किं कृत्वा । विधाय निर्माय । अर्थात् ज्योतिषिकानेव । कानिव । ईश्वरानिव महेभ्यानिव । कैः । स्वर्णानि काञ्चनानि । रूप्याणि रजतानि मणयो रत्नानि मौक्तिकानि मुक्ताफलानि तेषां दानर्विश्राणनेः । किंभूतः कुमारः । विधिमुचितकरणादिकं जानातीति विधिज्ञः सदाचारचतुरः । पुनः किंभूतः । निश्चितो निर्धारीकृतः व्रतस्य दीक्षागुहूर्तस्य दिनो दिवसो येन सः ॥ इति दीक्षामुहूर्तदिवसावलोकनम् ॥
आगतेऽहि सुहृदीव तदुक्ते शुद्धगोचरनवांशकयुक्ते । संमदाद्विजयसिंहमुखेभ्याः प्रारभन्त चरणक्षणमस्य ॥ ९५॥