SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः] हीरसौभाग्यम् । विजयसिंहनामा हीरकुमारस्य भगिन्या विमलाया मती स मुख आदियेषां तादृशाः इभ्या व्यवहारिणः अस्य कुमारस्य चरणक्षणं चारित्रमहोत्सवं प्रारभन्त उपकामन्ति स्म । कस्मात् । संमदात्प्रभोदात् । कस्मिन्सति । तैर्गणकैरुते कथिते अहि दिवसे आगते संप्राप्ते सति । कस्मिन्निव । सुहृदीव। यथा विवाहादावाकारिते मित्र महोत्सवाः प्रारभ्यन्ते । किंभूतेऽहि । शुद्धा निर्दोषा गोचरा रेखादानादयः नवांशका लममध्यगतविशिष्टतमवेलास्तैर्युक्त सहिते ॥ केचिदुच्चमणिपीठनिषण्णं गन्धबन्धुरपयोभृतकुम्भैः । निर्जरा इव जिनावनिजानि दीक्षणस्य समयेऽस्त्रपयंस्तम् ॥ ९६ ॥ केचित्पुरुषा दीक्षणस्य संयमग्रहणस्य समये प्रस्तावे अान्मुहूर्तवासरे तं हीरकुमार. मनपयन् स्नानं कारयन्ति स्म । कैः । गन्धैर्वासनार्थमन्तर्मुक्तकुसुमादिपरिमलैबन्धुरैमनोज्ञैः पयोभिः सलिलैभृताः पूरिता ये कुम्भाः कलशास्तैः । किंभूतं तम् । उच्चमुन्नतं तथा मणिमयं रत्नघटितं यत्पीटमासनम्। स्नानचतुष्किका इत्यर्थः । तत्र निषण्णमुपविष्टम् । के कमिव । निर्जरा जिनावनिजानिमिव । यथा दीक्षाग्रहणावसरे देवा अर्थाच्चतुःष. ष्टिप्रमितेन्द्रादयोऽमरा जिनानां सामान्यकेवलिनां मध्ये अवनिर्जाया भूमिरेव पनीर्यस्य । 'जायाया निङ्' । जायाशब्दानिप्रत्ययो भवति । 'लोपो व्योर्वलि' । वकारयकारयो. चलिप्रत्यये परे लोपो भवति । सखरयोरिति शेषः । यकारलोपे । अवनिजानी राजा एतावता जिनराजं तीर्थोदकपूर्णकलशैः ॥ सांप्रतं कथममुष्य जडेनाश्लेषणं विबुधकैरवबन्धोः । . कोऽप्यरुक्षयदितीव तदीयं वाससातिमृदुलेन शरीरम् ॥ ९७ ॥ कोऽपि पुमान् अतिमृदुलेनाधिकसुकुमारेण वाससा वस्त्रेण तदीयं हीरकुमारसंबन्धि शरीरं कायम् । उत्प्रेक्ष्यते-इतीव हेतोः अरुक्षयन्निनीरयामास। इति किम् । यद्विबुधेषु विचक्षणपुरुषेषु कैरवबन्धुश्चन्द्रस्तस्य पण्डितपुरंदरस्यामुष्य हीरकुमारस्य जडेन मूर्खण डलयोरैक्याजलेन पानीयेन सममाश्लेषणं संगमनं कथं केन प्रकारेण सांप्रतं युक्तम् । अपि तु न कथमपीति । पण्डितो हि मूर्खसङ्गं कदापि न कुर्यादिति ख्यातिः । 'मूरखसास्सिी गोठडी पगि पगि कर न बुधीज' इति सूक्तोक्तेः ॥ - काञ्चनप्रतिमयेव नितान्तोत्तेजनादनुपमप्रभयास्य । , मार्जनान्मृदुलगन्धदुकूलैर्निर्मलेन वपुषा पुपुषे श्रीः ॥ ९८ ॥ मृदुलानि कोमलानि गन्धेनोपलक्षितानि दुकूलानि क्षौमानि गन्धकाषाय्य: तैमार्जनान्निभरीकरणाद्रुक्षणान्निर्मलेन शुचिना अस्य कुमारस्य वपुषा देहेन श्रीः शोभा पुपुषे पुष्टा कृता । उत्प्रेक्ष्यते-काश्चनप्रतिमयेव यथा सुवर्णमूर्त्या नितान्तमतिशयेनोत्तेजनादुद्दीपनान्निर्मलीकरणादनुपमा असाधारणा प्रभा कान्तिर्यस्यास्तादृशी श्रीः पुष्यते ॥ .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy