________________
६ सर्गः] . हीरसौभाग्यम् ।
२१३ . एतया ध्वनिनिरस्तविपञ्च्या भूतलोपगतयेव घृताच्या ।
त्वं गृहाण च सगोत्रजनेभ्यः शासनं स पुनरेतदवादि ॥ ८ ॥ एतया भगिन्या पुनरेतदित्थममुना प्रकारेण स कुमारोऽवादि भाषितः । किंभूतया एतया। ध्वनिना मधुरखरेण निरस्ता तिरस्कृता विपश्ची वीणा यया । उत्प्रेक्ष्यते--भूतले क्षोणीमण्डले उपगतया प्राप्तया । 'उपगतोऽपि च मण्डलनाभिताम्' इति रघुवंशे । मण्डलनाभिता द्वादशराजचक्रवर्तितां प्राप्त इति तदृत्तिः । आगतया वा । 'आगमने च गमनार्थाः समभ्युपाङ्भ्य: पराः कथिताः' इति क्रियाकलापे । घृताच्या घृताचीनामाप्सरसा इव । 'अवतरति घृताचीस्कन्धविन्यस्तहस्तः' इति चम्पूकथायामिन्द्रविशेषणम्। तथा-'इत्यनक्षरमवाचि घृताच्या दीर्घनिःश्वसितनिर्गमितेन' इति नैषधे । इदं किम् । तदाह-हे वत्स, च पुनस्वं सगोत्रः खजना एव जनास्तेभ्यः शासनं दीक्षादेशं गृहाण आदत्व ॥
भारती श्रुतियुगाञ्जलिना तां वस्वसुर्मधुसखीं विनिपीय ।
शैक्षवन्निजगरोहितशिक्षा से स्म भूत्प्रमदमेदुरिताङ्गः ॥ २॥ स हीरकुमारः खखसुर्निजभगिन्या विमलायास्तां खजनादेशादानरूपां भारती वाणी श्रुतियुगं कर्णयुगमेवाझलिस्तेन विशेषेण सादरं निपीय पीला प्रमदेन हर्षेण मेदुरितं पुष्टीभूतमङ्गं वपुर्यस्य तादृशः स्म भूत्संजातः । किंवत् । शैक्षवत् । यथा शैक्षः प्राथमकल्पिक: निजगुरोहितामहिकामुष्मिकसाधनहारिणी शिक्षा सादरं श्रुत्वा हृष्टो भवति । किंभूतां भारतीम् । मधुनः क्षौद्रस्य सखी वयसीं मधुमृष्टाम् ॥ . स्वानुजादिनिखिलस्वजनेभ्यः शासनं व्रतविधेः पृथुकोऽपि ।
आददे पुनरसौ व्यवहारी लाभवद्विविधवस्तुगणेभ्यः ॥ ९० ॥ अपि पुनः पृथुको हीरकुमारः खस्यात्मनोऽनुजो भ्रांता श्रीपालनामा स आदौ येषां तादृशाः निखिलाः समस्ताः खजनाः गोत्रिवर्गमनुष्यास्तेभ्यः सकाशादतविधेः संयमा. चरणस्य शासनमादेशमाददे गृहीतवान् । किंवत् । लाभवत् । यथा व्यवहारी व्यापारकारको विविधानां नानाप्रकाराणां वस्तूनां क्रियाणकाणां गणेभ्य: समुदायेभ्यो लाभमधिकंफलं गृह्णाति । 'लाभोऽधिकं फलम्' इति हैम्याम् ॥ इति भगिनीवचनान्तरं खजनवर्गादेशग्रहणम् ॥
भूचरानिव विधेरनुवादान्सोपवीतकृतवेदनिदानान् ।
राजहंसगकमण्डलुपाणीनाजुहाव गणकान्स सुवाणीन् ॥ ९१॥ स हीरकुमारो गणकान् ज्योतिःशास्त्रविदः । 'सांवत्सरो ज्योतिषिको मौहर्तिको निमित्तवित्। दैवज्ञगणकादेशिज्ञानिकार्तान्तिका अपि ॥' इति हैम्याम् । आजुहाव आ१. सोऽभवत्' इत्येवमेव पाठः साधुः.