________________
२१२
काव्यमाला।
संसृतेर्मतिमतां वर तस्यास्त्वं पृथग्भवितुमिच्छसि वत्स ।
पुण्डरीकमिव पल्वलपकात्तत्सगर्भ भुवि धन्यतमस्त्वम् ॥ ८५ ॥ हे मतिमतां वर सुबुद्धिमाजां श्रेष्ठ हे वत्स, लघुभ्रातः । 'वत्सा उरस्तुग्वर्षतर्णकाः' इत्यनेकार्थः । तुक् अपत्यमुपलक्षणाल्लघुभ्रात्रादावपि इत्यवचूर्णिः । तस्याः पूर्वव्यावर्णितखरूपायाः संसतेः संसारात्सकाशात्त्वं पृथग्भवितुम् । त्यक्तु मित्यर्थः । इच्छसि वाञ्छसि। किमिव । पुण्डरीकमिव । यधा पल्वलपङ्कात्तटाककर्दमात्कमलं भिन्नं भवति । भूमीपीठे जम्वाल:, तदुपरि जलम् ।द्वे अपि मुक्त्वा द्वयोरुपरि पद्म तिप्टेत् । पुण्डरीकशब्देन तस्य श्रेष्ठत्वख्यापन तत्कारणात् । हे समान, एको गर्भो यस्य तस्य संबोधनं हे सगर्भ बान्धव, भुवि पृथिव्यां त्वमेव धन्यतमः अतिशयेन पुण्यवान् । 'सुकृती पुण्यवान् धन्यः' इति हैम्याम् ॥ इति दीक्षानुज्ञादानानन्तरं धर्मकारकत्वेन भगिनीस्तुतिः ॥ . .
एतदालपितमात्मभगिन्याः श्रोत्रपत्रपुटकेन निपीय ।
सातमाप मृदुतित्तिरपिच्छस्पर्शजातमिव हीरकुमारः ॥ ८६ ॥ आत्मभगिन्या निजजामेः एतत्पूर्वोक्तं भ्रातृप्रशंसाकरणात्मकमालप्रितं भाषितं श्रोत्रं कर्णस्तदेव पत्रस्य पर्णस्य पुटको भाजनविशेषः । 'दुंदडो' इति लोकप्रसिद्धः । तेन निपीय पीत्वा । सादरं श्रुत्वेत्यर्थः । हीरकुमारः सातं सुखमाप लेभे । उत्प्रेक्ष्यते-मृदु सुकुमारं यतित्तिरः खरकोणः पक्षिविशेषः । लोके 'गणेश' इति प्रसिद्धः । तस्य पिच्छं पतत्रं तनूरहं तस्य स्पर्शः संघटस्तेन जातमुत्पन्नमिव सुखम् । अर्थात् कर्णयोः तित्ति. रपक्षिणोऽतिमृदुलपिच्छस्य परावर्त्यमानस्य कर्णेऽतीव सातं जायते । यदुक्तं चम्पू. कथायाम्-'कोष्णं किं नु निषिच्यते तव बलात्तैलं सखि श्रोत्रयोरन्तस्तित्तिरपक्षिपत्रमथ वा मन्दं मृदु भ्राम्यति । येनाङ्गेषु निखातमन्मथशरप्रस्फारपिच्छच्छविनीलीमेचक्रितोच्चकचकरुचा रोम्णां वहत्युद्गमः ॥' इति ॥
रोमहर्षणमिषात्तदनुज्ञोटेलहर्षजलधौ शिशुकाये ।
उत्वसन्ति किमु किंचन लोलद्वालशालिशफराः परितोऽमी ॥८॥ शिशुकाये हीरकुमारशरीरे रोमहर्षणस्य रोमाञ्चस्य मिषाच्छलादमी प्रत्यक्षलक्षाः किं. चन किमपि लोलन्तश्चश्चलीभवन्तः । 'कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशेषः कर्णाटीचीनपीनस्तनवसनदशान्दोलनस्पन्दमन्दः । लोलल्लाटीललाटालकतिलकलतालास्यलीलाविलोल: कष्टं भो दाक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः ॥' इति भोजप्रबन्धे। बाला लघवः शालिनः शोभाकलिताः शफरा मीनाः। परितः सर्वतः । उत्प्रेक्ष्यतेउत्खसन्ति उच्छलन्ति । किंभूते शिशुकाये । तस्या विमलानाम्न्या भगिन्या अनुज्ञा संयमादानादेशस्तेनोद्वेलो वेलामतिक्रम्य प्रसरन् यो हर्षः प्रमोदः स एव जलधिः समुद्रो यत्र । यादःपतिवान्मकराकरवाच्च मीनानां संभवो युक्त एव जलनिधौ ॥