________________
५ सर्गः]. हीरसौभाग्यम् ।
२११ __यादसां भवधुनीधवमध्ये मादृशामतिदुराकलनीयः । • संयमः सुकृतविप्रयुतानां भ्रातरल्पतरसामिव दुर्गः ॥ ८१॥ हे भ्रातः, सुकृतविप्रयुतानां पुण्यरहितानां मादृशामसद्विधानां संयमश्चारित्रमतिदुराकलनीयः अतिशयेन दुरधिगमः दुःखेनादरणीयः । मादृशां किंभूतानाम् । भवः संसारः स एव धुनीधवो नदीपतिः समुद्रस्तस्य मध्ये कोडे यादसा जलचराणां नकाणाम् । क इव । दुर्ग इव । यथाल्पतरसां स्वल्पबलानाम् । 'प्राणस्थामतरः पराक्रमवलद्युम्नानि शौर्योजसी' इति हैम्याम् । स्तोकं सैन्यं भुजबलं वा येषां तेषां नृपाणां दुर्ग: कोहः दुष्प्राप: प्रहीतुमशक्यः ॥
संततोपचितकर्मगणस्यानादिधाभवपरम्परयास्ते। __ क्रीतभृत्य इव भर्तृजनस्यायत्तधीरिह सुधीरपि बन्धो ॥ २ ॥ हे बन्धो, इह जगति अनादिधा न विद्यते आदिर्यस्याः सा अनादिः अनादिप्रकारा इत्यनादिधा तादृशी भन्नपरम्परा संसारे संसारता अवतारसंततिस्तया कृत्वा संततं निरन्तरमुपचितः प्रचुरीकृतो यः कर्मणां पुण्यपापरूपाणां गणस्य व्रजस्य सुधीरपि पण्डितोऽपि जाननप्यायत्तधीर्वश आस्ते । क इव । क्रीतभृत्य इव । यथा मूल्यगृहीतः सेवको भर्तृजनस्य खामिनोऽधीनः स्यात् । 'अनादिधा विश्वपरम्परायाम्' इति नैषधे ॥
कर्मसंततितिरोहितभावश्चेष्टतेऽत्र निरवग्रहचेष्टः ।
लोक एप निखिलोऽपि पिशाचावेशिताशय इव व्रतकाड्जिन् ।।८३॥ हे व्रतकाड्दिन संयमाभिलाघुक हे भ्रातः, एष जगति दृश्यमानः निखिल: समस्तो. ऽपि लोको जनः पिशाचेन व्यन्तरजातिविशेषेण देवेनावेशितोऽधिष्ठित आशयश्चित्तं परिणममो वा यस्य तादृश इव निरवग्रहा खतत्रा चेष्टा हास्यविनोदक्रीडाकरणादिख. भावो यस्य तथाविधः सन् चेष्टते विलसति । किंभूतो लोकः । कर्मणां प्राचीनजन्माचीर्णानां शुभाशुभपुद्गलपरिणामरूपाणां संतत्या प्रकृतिपरम्परया तिरोहित आवृतोभावः सम्यग्ज्ञानरूपो जीवखभावो यस्य ॥ .. संसृतेः सुखमशेषममुष्या बान्धवातमिवानुभवन्ति । .. हीनसंगममिवारमणीयं जानते न तु जनाः परिणामे ॥ ८४ ॥
हे बान्धव हीरकुमार, लोकाः समस्ता अपि संसारिजनाः अमुष्याः संसृतेः अस्य संसारस्याशेष समग्रमपि सुखं शर्म अमृतमिव सुधारसखादमिवानुभवन्ति भुजन्ते। तु पुनः हीनसंगममिव नीचजात्या कर्मणा वा पिशुनत्वेन वा निकृष्टर्मिलनं सौहार्दादिकरणमिव परिणामे प्रान्ते अवसाने विरसं महादुःखदं जना न जानते नैव विदन्ति । यदुक्तं सूक्तम्-'नीचसरीसो कीजइ संग चढइ कलङ्क हुइ जसभङ्ग । हाथि अहार करइ जइ कोइ कह दाझह कइ कालो होई ॥' इति ॥