________________
काव्यमाला। नित्यं सदोत्सवमयाः महामहप्रचुराः सन्ति । तदेव दर्शयति-यत्र प्रावृषि वर्षाकाले
आगमानां सिद्धान्तानां घोषाः पठनध्वनयः गीतयोगानामिव श्रयन्ते। पुनर्यत्र भवभावाः गर्व संसारपदार्थाः संसारखरूपाणि वा ताण्डवा नृत्यानीव नाटकानीव विलोक्यन्ते। ताण्डवशब्दः पुनपुंसके । 'पूर्वत्रिदिवताण्डवाः' इति लिङ्गानुशासने ॥ इति कुमारोक्तं श्रमणखान्तविश्रामकारि वर्षतुकाव्यम् ॥
यो विजेतुमिव वारिजराजीं पश्यतस्तत इतः क्रमणेन ।
पल्लवांश्च विभवैरतिदृप्तौ तौ क्रमौ कलयतः किमसातम् ॥ ७१ ॥ हे भगिनि, तौ क्रमौ चरणौ असातं दुःखं कथं कलयतः धत्तः । यो क्रमौ विभवै. लक्ष्मीभिः कृत्वा अतिदृप्तौ अधिकमदाध्मान्तौ सन्तौ वारिजराजी कमलमालां च पुनः पल्लवान् प्रवालान् जेतुं पराभवितुं तत इतः इतस्ततः क्रमणेन पर्यटनेन पश्यतः वि. लोकयतः । यौ परान् विजिगीषतस्तौ सातासातं न गणयतः ॥
द्वेषिणामिव गणाः शितिमानं वक्रभावमपि ये कलयन्ति ।
को महाभट इवात्महितैषी नोच्छिनत्ति ननु तानिह केशात् ॥७२॥ ननु इति प्रश्ने । हे खसः, तान् केशान् कुन्तलान् कः प्राज्ञः पुमानोच्छिन्नत्ति नोच्छेदयति । कः किंभूतः । आत्मनः खस्य हितमायतिकालं सुखमिच्छतीत्येवंशील आत्महितैषी खसुखाभिलाषुकः । क इव । महाभट इव । यथा सर्वाङ्गीणबलवान् सु. भटः राजादिकः खाभ्युदयकाली सन् कुत्सितान् ईशानधिपतीन् केशान् कुग्रामवासिन: पल्लीपतिप्रमुखानथ वा सीमालाभूपालान् खस्पर्धित्वेन शत्रूनुच्छेदयति । तान् कान् । ये द्वेषिणां वैरिणां गणा व्रजा इव शितिमानमर्थान्मनसि श्यामतां कालुष्यम् । द्रो. हमित्यर्थः । अपि पुनर्वक्रभावं कुटिलतां कपटिभावं कलयन्ति बिभ्रति । प्रायः सत्पुरुषाणां स्त्रीणां च केशेषु वक्रत्वं वर्ण्यते । यथा चम्पूकथायाम् 'वक्रोक्तिकुशलस्य नलस्य केशकलापोऽपि वकतां भेजे' । तथा 'अरालकेशी वशा' ॥
जैमिनीयमनुजा इव दैवे विग्रहे न शमिनः कृतयत्नाः ।
क्षेत्रमत्र हि तपोविधिसीरक्षेडितं दिशति निर्वृतिसस्यम् ॥ ७३ ॥ हे सहोदरे, शमिनश्चारित्रिणो विग्रहे शरीरे मेघकुमार इव न कृतयत्ना नैव विनिमितपालनाः ममत्वपरिणामरहिता भवन्ति । के इव । जैमिनीयमनुजा इव । यथा जैमिनीयमतानुयायिनो मनुजा जना दैवे देवतासंबन्धिनि शरीरे न कृतोद्यमा नैव निर्मितप्रयत्लाः ते हि देवानां शरीरं न मन्यन्ते । 'विग्रहं मखभुजामसहिष्णुस्तस्य जैमिनिमुनित्वमुदीये' इति नैषधे । हि यस्मात्कारणात्तपस्यां विधिभिः एकावल्यादिबहुवि. धप्तकारैरेव सीरैर्हलैः क्षेडितं गृहीतसारं त्रिसतीकृतं च सत् क्षेत्रं वपुः कृषिभूमिश्च ।
१. परस्मैपदं चिन्यम्.