________________
५ सर्गः] हीरसौभाग्यम् ।
२०९ 'क्षेत्रं भरतादौ भगाङ्गयोः । केदारे सिद्धभूपत्न्योः ' इत्यनेकार्थः । अत्र जगति निर्वृतिसस्यं मोक्षफलं सुखेन सुखकद्वा धान्यं दिशति ददाति । सस्यं धान्यफलयोरिति ।
इन्द्रियाण्यनिशमुत्पथगानि शूकलानिव वहशमरश्मीन् ।
यो नियन्त्रयति जन्तुरविनां प्राप्य निर्वृतिपुरीं सं सुखी स्यात्।।७४॥ हे भगिनि, स जन्तुः प्राणी अविनां निरन्तरायां निर्वृतिपुरीं मुक्तिनगरीं प्राप्यासाद्य सुखी स्यात् । स कः । यः पुमान् अनिशं नित्यमुत्पथगानि उन्मार्गप्रवृत्तानि इन्द्रियाणि । श्रोत्रेक्षणनासारसनास्पर्शनरूपाणि पश्चापि हृषीकानि नियन्त्रयति निरुध्य स्वायत्तानि कुरुते खवशीकरोति । किं कुर्वन् । शमरश्मीन् शमतापरिणामरूपकशा वहन् धारयन् । कानिव । शूकलानिव । उपमाने लिङ्गविपर्ययः । “लिङ्गभेदं तु मेनिरे' इति वाग्भटालंकारे । यथा उत्पथगान् दुर्विनीतानश्वान् कशा दधत्कशा प्रहारैः सादी अश्ववारो नियन्त्रयति दमयति ॥
मानवान्वयमसौ छलदर्शी छाययास्त्यनुसरन्निव कालः।
आयतौ हितमतः करणीयं तजिनक्रमयुगं शरणीयम् ॥ ७५ ॥ हे सोदरे, असौ प्रत्यक्षः चर्मचक्षुभिरपि लक्ष्यमाणः खयमात्मना छलदशी छिद्रावलोककः रन्ध्रान्वेषी कालो यमः हायया वपुःप्रतिच्छायिकया । छायाछलेनेत्यर्थः । मानवान्प्रति मनुष्यान् प्रति मनुष्याननुसरन्ननुगच्छन्निवास्ति । यदुक्तम्-'छयामिसेण कालो सव्वजियाणं छलं गवेसन्तो। पास कहवि न मुश्चइ ता धम्मे उजमं कुणह ॥ इति वचनात् । अतोऽस्मात्कारणान्मानवैरायतौ उत्तरकाले हितम् । येन कृत्वा जन्तुः इहलोकपरलोकयोः सुखी स्यात् तद्धितं पथ्यं करणीयं विधातव्यम् । तत्कारणात्तद्धितकर्तृजिनक्रमयुगं श्रीवीतरागचरणयुगलं शरणीयं शरणीकरणीयमाश्रयितव्यम् ॥ इति हीरकुमारस्य भगिनीं प्रति द्वितीयवारं प्रत्युत्तरवचांसि ॥ - वाङ्मयर्जितसुधामधुदुग्धैर्निर्जयं विदधतीव शुकीनाम् ।
इत्थमुक्तवति हीरकुमारे सा बिभेद वदनाम्बुजमुद्राम् ॥ ७६ ॥ • हीरकुमारे इत्यममुना प्रकारेण उक्तवति भाषितवति सति सा विमला वदनाम्बुज• मुद्रां मुखकमलमुद्रणं मौनलक्षणां बिभेद त्यक्तवती । बंभाषे इत्यर्थः । उत्प्रेक्ष्यते-जि. तानि पराभूतानि सुधा पीयूषं मधु क्षौद्रं दुग्धं पयो यैस्तादृशैर्वाङ्मयैर्वचनविलासैः कृत्वा शुकीनां कीरकान्तानां निर्जयं विदधतीव कुर्वतीव ॥
नाहती व्रतविधौ तव तेनाद्यापि यत्स्फुरति शैशवमङ्गे ।
योद्भुराहव इवापटुतायां तेन तिष्ठ कियतीः शरदस्त्वम् ॥ ७७ ॥ हे सहोदर, तेन कारणेन तव भवतो व्रतविधौ संयमग्रहणप्रकारे नाहती न योग्यता बहतो भावः आईती । 'अर्हतो नुम्वा' इति विभाषया नुम्विधानादार्हन्ती आहतीति