SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः] हीरसौभाग्यम् । २०३ कर्तुमिच्छू । उत्सुकतया उत्कण्ठितत्वेन त्वःवास्तव जामायाः । 'दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः' इति हैम्याम् । मुखं वदनमेव मुधांठस्तस्य सुधां दर्शनामृतं तस्याः पानं पीति प्रविधित्सू कर्तुमिच्छू । 'कणे हत्यचकोरीण गणः पीला सुधासवम् । अजायत मदेनेव गुञ्जापुञ्जारुणेक्षणा ॥' इति वस्तुपालकीर्तिकौमुद्यां चकोराणां ज्योत्स्नापाने प्रसिद्धेऽपि इत्यमृतपानमपि ॥ इति विमलायाः प्रथमोक्तिः ॥ वाङ्मयविरचितैरिदमाद्यैः श्रोत्रपत्रपथिकैः स्वभगिन्याः । प्रेरितो निगदति स्म कुमारो गर्जितैरिव शिखी धनपतेः ॥ १२ ॥ कुमारो हीरनामा बालको निगदति स्म बभाषे । किंलक्षणः । प्रेरितः प्रणोदितः । कैः । इदं पूर्वोक्तमाद्यं प्रथमं येषु तादृशैर्वाङ्मयैर्वाचां प्रपञ्चैः । 'इतीदृशैस्तं विरचय्य वाङ्मयैः' इति नैषधे। किंभूतैर्वाङ्मयैः । विरचितैः प्रणीतैः । उक्तरित्यर्थः। कया । भगिन्या खबृहत्खस्रा । पुनः किंभूतैः । श्रोत्रयोरर्थात् कुमारस्य कर्णयोः पथिकैः प्राघुणीभूतैः । श्रुतैरित्यर्थः । वभाषे । क इव । शिखीव । यथा मयूरो घनपते: मेघमालाया गर्जितैगरिवैः प्रेरितो वक्ति केकारवं कुरुते ॥ जीवितं कुशशिखास्थमिवाम्भः पांशुलेव तरला कमलापि । ऐक्षवाग्रमिव यौवतमेतत्प्रेक्षणक्षण इव स्वजनोऽपि ॥ ५३॥ . हे जामे, जीवितमायुर्जीवितव्यं कुशशिखास्थं दर्भाग्रस्थायुकभम्भो नीरमिव वर्तते । दर्भाग्रस्थमम्भः कियत्कालमवतिष्ठते तथा जीवितमपि । अपि पुनः-कमला पांसुलेव व्यभिचारिणीव तरला चपला । अस्थिरा आस्ते । पुनरेतत्संसारिजनैराद्रियमाणं यौवतं युवतीनां समूहः स्त्रीगुणः ऐक्षवाप्रमिव इथूणामिदमैक्षवं तादृशमग्रं प्रान्तं तद्वत् । यथा इथूणामग्रे नीरसता तथा विचार्यमाणमनुभूयमानं च स्त्रैणं प्रान्ते नीरसमेव जायते । अमि पुनः स्वजनो ज्ञातिवर्गः परिजनो वा प्रेक्षणक्षण इव रामलक्ष्मणादिरूपदर्शननाट. कप्रस्ताव इव क्षणदृष्टनष्टः स्यात् ॥ यद्गमिष्यति ममार्भकभावोऽलंकरिष्यति तनुं च युवश्रीः । वाधकं पुनरमात्यमिव खं भूषयिष्यति क इत्यवगच्छेत् ॥ १४ ॥ .' हे जामे, यन्मम मदीयोऽर्भकभावः शैशवं गमिष्यति यास्यति । च पुनर्युवश्री: भावप्रधाननिर्देशात्तारुण्यलक्ष्मीः । अथ वा युवत्त्वेन श्रीलक्ष्मी: शोभा मम तनुः शरीरमलंकरिष्यति । पुनर्वार्धकं वृद्धावस्था स्वमर्थादात्मीयात्मानं भूषयिष्यति । कमिव । अमात्य मिव । यथा प्रधानं वार्धकं भूषयति । 'वार्धकं भूषयत्यत्र राजामात्यभिषमुनीन्' इति वचनात् कः पुमानित्यवस्थात्रयं भावीदमवगच्छेत् अवबुध्येत । अपि तु न कोऽपीत्यर्थः ॥ जन्तुरेष इह जामिकलत्रभ्रातृमातृपितृपुत्रविशेषैः । वम्भ्रमीति परमाणुरिवैको नीलिमारुणिमपीतिमरागैः ॥ ५५ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy