________________
२०४
काव्यमाला |
हे भगिनि एष जन्तुः प्राणी इह जगति एक एव जामिर्भगिनी, कलत्रं पत्नी, भ्राता बन्धुः, माता जननी, पिता जनकः, पुत्रः सुतः, एतेषां विशेषैः प्रकारैः बम्भ्रमीति संसारचक्रे अतिशयेन पर्यटति । क इव । परमाणुरिव । यथा एक एव परमाणुनीलत्वपीतत्वरक्तत्वादिरागैरङ्गैर्भुवने भ्राम्यति ॥
सौरभेण मलयदुरिवात्मा यस्य धर्मविधिना स्म विभाति ।
तेन विष्टपमशेषमभूषि प्रोच्यते स्म किमुताभिजनादि ॥ १६ ॥
हे जामे, यस्यात्मा धर्मविधिना जैनधर्माचरणप्रकारेण विभाति स्म शोभितः । क इव । मलयदुरिव । यथा चन्दनतरुः सौरभेण परिमलेन विभाति तेन पुंसा अशेषं समस्तमपि विश्वमभूषि भूषितम् । तर्हि अभिजनादि किमुत प्रोच्यते । निखिलेऽपि भुवने स्ववंशादि तु सुतरामेव भूषितमिति बोध्यम् ॥
निम्नगेव परिसर्पति निम्नं या दधाति पितृसूरिव रागम् । भोगिनीव कुटिला कमलाक्षी सा सतामनुचिताभ्युपगन्तुम् ॥५७॥ हे जामे, या स्त्री निम्नगेव नदीव निम्नं नीचैः परिसर्पति गच्छति । नीचगामिनी । 'कामिन्यो नीचगामिन्यः' इति वचनात् । तथा — या स्त्री पितृसूः संध्येव क्षणं रागं दधाति । यथा संध्या क्षणं पञ्चाप्यतिशायिवर्णविशेषान् दर्शयित्वा नीरागा स्वयमपि कापि याति तथैव स्त्री । तथा या कान्ता भोगिनीव भुजङ्गीव कुटिला । वक्रगामिनी वक्ति अन्यदन्यच्च कुरुते सा कमलाक्षी वनिता सतामुत्तमानामभ्युपगन्तुमङ्गीकर्तुमनुचिता सर्वथापि नैव योग्या ॥
या जहाति न कदाप्यनुषङ्गं या विरागवति चाधिकरागा । तां जगज्जनमनःकमनीयां लिप्सते शिवकनीं मम चेतः ॥ ५८ ॥
हे जामे, या वधूः कदापि कस्मिन्नपि समये भर्तुरनुषङ्गं सङ्गम् । पार्श्वमित्यर्थः । न जहाति न मुञ्चति । च पुनर्या विरागवति वैराग्यभाजिनि नीरागेऽपि पुंसि अधिक
रागा उत्कृष्टरङ्गा भवति । तां शिवकन्यां जगद्विख्यातां मुक्तिकन्यां मम चेतश्चित्तं लिप्सते वाञ्छति । किंभूतानां जगताम् । भूर्भुवः स्वस्त्रयीजन्मिनां सुरासुरनराणां मनोभिरन्तःकरणैः कमनीयामभिलषणीयाम् ॥ इति प्रव्रज्यादृढतायां भगिनीं प्रति कुमारवचः ॥
निश्चिकाय वचनैरथ तैस्तैस्तस्य सा व्रतविधौ द्रढिमानम् । मौक्तिकस्रजमिवाश्रुकणौघैस्तन्वती हृदि पुनस्तदवोचत् ॥ १९ ॥
अथ भ्रातुर्वचनश्रवणानन्तरं सा विमला तैस्तैः पूर्वोक्तवचनैस्तस्य हीरकुमारस्य व्रतविधौ दीक्षाग्रहणविषये द्रढिमानं दृढतां निश्चिकाय निर्धारयामास । निर्धारं कृतवती । पुनः सा जामिः तं भ्रातरमवोचद्वक्ति स्म । किं कुर्वती । अश्रुकणौघैः बाष्पबिन्दुवृन्दैः।