________________
२०२
काव्यमाला ।
भाग्यभाजि जलजन्मगृहैवागन्तुका तरुणता त्वयि वत्स ।
कामकेलिवसतौ रतिसख्यां त्वं रमख युवतीभिरमुष्याम् ॥ ४८ ॥ हे वत्स, त्वयि विषये तरुणता यौवनावस्था आगन्तुका आगमनोत्सुकशीला वर्तते। केव । जलजन्मगृहैव । यथा भाग्यभाजि पुण्यवति पुरुषे जलजन्ममन्दिरा लक्ष्मीरागमनशीला भवेत् । पुनर्हे बन्धो, त्वममुष्यां तारुण्यावस्थायां युवतीभियौवनवतीभिः स्त्रीभिः साधै रमख विलासं कुरु । 'युवतीकरनिर्मलनि मथितम्' इति दीर्घोऽपि युवतीशब्दः । किंभूतायाममुष्याम् । कामस्य कन्दर्पस्य केलिवसती क्रीडागृहे । पुनः किं.. भूतायाम् । रते रागस्य सख्यां वयस्याम् । रतिः स्मरस्त्रियां रागे रते' इत्यनेकार्थः ॥
यौवनेऽर्जय यशोगुणलक्ष्मीः क्षोणिमानिव महःक्षितिकोशान् ।
आर्हतं तदनु धर्ममयि त्वं स्थाविरे स्थिरतया विदधीथाः ॥ ४९॥ __ हे वत्स, यौवने तारुण्ये यशांसि कीर्तीर्गुणान् महत्त्वौदार्यादिलक्षणान् लक्ष्मीरमिताः. श्रियश्च अर्जय खायत्तीकुरु । क इव । क्षोणिमानिव । तथा भूपतिस्तारुण्ये महः प्रतापं क्षितिं परदेशमण्डलं कोशान् बहून् भाण्डागारोत्करानुपार्जयति । 'खात्पालधनमुक्नेतृपतिमत्त्वर्थकादयः' इति हैम्यामुक्तत्वेन क्षोणिमानित्यत्र मत्त्व यप्रत्ययः । अयि पुनर्हे वत्स, अनु तारुण्यावस्थायां पश्चात्स्थाविरे वार्धके वृद्धवयसि स्थिरतया स्थैर्येण अचपलचित्तत्वेन आर्हतमहदुक्तं तं चारित्रलक्षणं धर्म विदधीथाः कुर्वीथाः ॥
मौक्तिकेन किल सोदर सर्वेः श्लाघ्यतेऽत्र भवता पितृवंशः ।
भ्रातृवत्यहमपि त्वयकास्मि श्रीरिवामृतकरेण वरेण ॥ ५० ॥ हे सोदर, अत्र लोके भवता त्वया कृत्वा । अथ वा अत्रभवता पूज्येन । भाविनि भूतो. पचाराजनानां माननीयेन वा भवता । अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थे निपात्येते इति वचनात् । पितृवंशस्तातान्वयः कुंरासाहकुलम् । सर्वैर्जनैः श्लाध्यते प्रशस्यते स्तूयते । केनेव । मौक्तिकेनेव । अत्र किलेति इवार्थे । यथा मौक्तिकेन मुक्ताफलेन कृत्वा मुक्ताफलानां पिता तत्मादुत्पन्नत्वात्तेषां तादृशो वंशो वेणुः शतपर्वा जनैः श्लाध्यते । 'उत्प्रेक्षाद्योतकाः शङ्के मन्ये नूनमिव ध्रुवम् । जाने किलादयो ज्ञेयाः प्रायेणेयं क्रियोद्भवाः॥' इति कविशिक्षायाम् । अपि पुनर्हे बन्धो, अहं त्वयका कृला भ्रातमती सोदरवती अस्मि वर्ते । केव । श्रीरिव । यथा लक्ष्मीरमृतकरेण चन्द्रेण बन्धुमत्यस्ति । द्वयोरपि समुद्रोत्पन्नत्वेन । किंभूतेन त्वया चन्द्रेण च । वरेण जनेषु ज्ञातिषु श्रेष्ठेन ॥ .
त्वद्वधूमुखसुधांशुसुधायाः पानमुत्सुकतया प्रविधित्सू ।
मद्विलोचनचकोरशकुन्तौ चापलं रचयतश्विरमेतौ ॥ ११ ॥ हे बन्धो, एतौ दृश्यमानौ मद्विलोचने मम नेत्रे एव चकोरशकुन्तौ ज्योत्स्नाप्रियपक्षिणौ चिरं बहुकालं यावच्चापलं चञ्चलताम् । उत्कण्ठतामित्यर्थः । रचयतः कुर्वते । किं.