________________
५ सर्गः
हीरसौभाग्यम् ।
२०१
लक्ष्मीस्तत्राभिमुखं संमुखीभूतं निजजनं खकीयबन्धुवर्ग हितकाडी खजनहिताभिलापुको जनः को विनयोद्वेनं कुर्यात् , अपि तु न कोऽपि नान्तरायी भवेत् ॥ इति विमलाभगिनीं प्रति हीर कुमारस्य दीक्षादेशमार्गणवचनम् ॥
तद्वचो विचरितं सहजेन प्राप्तमात्रमपि कर्णपुटान्तः ।
क्षिप्ततप्तगुरुपत्रमिवास्या दुःखमप्रतिममातनुते स्म ॥ ४५ ॥ सहजेन भ्रात्रा । ['भ्राता तु स्यात्सहोदरः । समानोदर्यः सोदर्यः सगर्भसहजा अपि ॥' इाते हैम्याम् ।] विरचितं कथित तद्वचो दीक्षादेशमार्गणरूपं तत्पूर्वोक्तं वाक्यं कर्णपुटान्तः श्रोत्रपात्रमध्ये प्राप्तमात्रमपि केवलमेकवारं गतमपि अस्या विमलाया हीरकुमारस्य वृहद्भगिन्या अप्रतिममसाधारणं दुःखमातनुते स्म चक्रे । किमिव । क्षिप्ततप्तगुरुपत्र मिव ! यथा-क्षिप्तं स्थापितं तप्तमुष्णीकृतं गुरुपत्रं कर्णयोरतिदुःखदं स्यात् ॥
डिम्भलम्भितविडम्बनभाजा दुःखतः परभृतेव भगिन्या ।
स न्यगादि मृदुगद्गदवाचा साधिमाधरितपुष्पधनुःश्रीः ॥ ४६ ॥ स हीरकुमारो भगिन्या विमलाखस्रा न्यगादि भाषितः । किंभूतया । मृद्वी कोमला तथा वाष्परस्पष्टा तादृशी वाग्वाणी यस्याः । अथवा साधनभूतया वाचा कृत्वा । कुतः । कुतस्तादृग्भ्रातृप्रव्रज्या परिणामोद्धृतदुःखतः । स किंभूतः । साधिन्ना शरीरसौन्दर्येण । 'साधुरम्यमनोज्ञानि' इति हैम्याम् । अधरिता हीनीकृता तिरस्कृता वा पुष्पधनुषः कामस्य श्रीर्वपुः शोभा येन । त्वयादृतः किं नरसाधिमभ्रमः' इति नैषधे ॥ उत्प्रेक्ष्यते--परभृतेव । यथा कोकिलया भाष्यते विखरमुच्यते । किंभूतया । डि. म्भेन अव्यक्तबालकेन लम्भितं प्रापितं यद्विडम्वनं संतापनं तद्भजतीतिपरान् काकबालकान् पुष्णन्तीति परभृतः । 'कोकिलैः पालितः काकस्तथा चास्तु पोषितः' इति वचनात् । तथा परभृत् व्यञ्जनान्तः। 'परभृतां मदनालसचेतसाम्-' इत्यादि रघुकु. मारयोरपि ॥
सांप्रतं व्यतिकरस्तव कोऽयं वार्धकोचितविधेश्चरणस्य । ... लीढि वत्स विषयस्य रसालस्येव पक्रिमफलस्य रसांस्त्वम् ॥४७॥ ' हे वत्स, सांप्रतमिदानी बाललीलायां तव भवतश्चरणस्य चारित्रस्य कोऽयं व्यतिकरः क एष प्रस्तावसमय: । किंभूतस्य चरणस्य । वार्धके वृद्धावस्थायामुचितो योग्यो विधिराचरणं यस्य । किं च हे बन्धो, अधुना त्वं विषयस्य शब्दादिगोचरस्य रसानास्वादान् लीढि आखादय । रागाननुभव । कस्येव । पक्रिमफलस्येव । यथा कोऽपि रसालस्य सहकारतरो: परिपक्वफलस्य रसात्रिस्यन्दानाखादयति जनः ॥
१. वस्तुतस्तु परभृता माक्येव । कोकिलडिम्भो रूपसादृश्यविडम्बनातः काकाभ्यां पाल्यते इत्येव संप्रदायः.