________________
२००
काव्यमाला।
विलासा वैचित्र्यास्त एव रसा जलानि तैर्ममेदं मदीयमेतत्प्रत्यक्षशब्दविषयगोचरं कर्णी श्रवणावेव कलश्यो कुम्भ्यौ तयोर्द्वयं युगलं पूर्यते स्म पूणीभूतम् । श्रवणशब्दः पुनपुं. सके । 'आलोचनान्तात् श्रवणौ वितत्य' इति लिङ्गानुशासनावचूर्णी । तथा 'अवलम्बितकर्णशष्कुलीकलशीकं रचयत्रवोचत' इति नैषधे । कस्मादिव । उन्नमत्रलधरादिव । यथा उन्नमतो जलभरैर्नम्रीभवन्तो जलधरान्मेघादुदितैः प्रादुर्भूतैनारैः सलिलैः कलशीद्वन्द्वं परिपूर्णीभवति । वाणिशब्दो ह्रखोऽप्यस्ति । यथा 'अन्तर्वाणिस्तु शास्त्रवित्' इति हैम्याम् । तथा भर्तृहरशतके प्रोक्तं च–'केयूरा न विभूषयन्ति पुरुष हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः । एका वाणि. रलंकरोति पुरुष या संस्कृता पठ्यते क्षीयन्ते किल भूषणानि सततं वाग्भूपणं भूष. णम् ॥' इत्यत्रापि वाणिशब्दो हवः ॥
सूरिभर्तुरमृतादपि वाचो दृश्यते जगति कोऽपि विशेषः । .
त्यक्तमन्यव इदंरसिका यन्मन्युबद्धमनसस्त्वमृताशाः॥ ४२ ॥. हे जामे, जगति विश्वे अमृतात्पीयूषात्सूरिभर्तुर्बाचो वाण्याः कोऽप्यद्भुतवैभवो वि. शेषः अतिशायित्वमनिर्वचनीयमहिमा दृश्यते अवलोक्यते ज्ञायते वा । यद्यस्मात्का रणात् इदंरसिका गुरुवचनसुधापानरसवन्तो जनास्त्यक्तमन्यव उज्झितकोपा जायन्ते अस्यां वाण्यां रसिकाः इदंरसिकाः । 'इदं यशांसि द्विषतः सुधारुचः' इति नैषधे तु पुनः । अमृताशाः सुधापायिनो देवा मन्युबद्धमनसः कोपकलितान्तःकरणाः तत्त्व तस्तु यज्ञोत्कण्ठहृदयाः तदशनत्वात् । 'खाहा खधा ऋतुसुधाभुज आदितेयाः' इति
हैम्याम् ॥
सांप्रतं भगिनि तेन मुनीन्दोः संनिधौ ग्रहयितुं व्रतलक्ष्मीम् ।
उत्सुकोऽहमभवं भवमनो धारिणेय इव वीरजिनेन्दोः ॥ ४३ ॥ हे भगिनि, तेन एतादृग्गुरुवचनामृतपानौत्सुक्येन कारणेन सांप्रतमधुना मुनीन्दो विजयदानसूरेः पार्श्वे व्रतलक्ष्मी चारित्रश्रियं ग्रहयितुमादातुमहमुत्सुक उत्कण्ठितो ऽभवं संजातः । 'गृह्णाति ग्रहयते लाली' इति क्रियाकलापे । ग्रहयते इत्यस्य ण्यन्तस्य तुम्प्रत्ययप्रयोगः । अहं किंभूतः । भवात्संसारात्पुनः पुनः पर्यटने भग्न उद्विग्नः । व इव । धारिणेय इव । यथा श्रेणिकनृपत्नी धारिणी तस्या नन्दनो मेघकुमारः श्रीमहा वीरजिनवरस्य पावे. व्रतं ग्रहीतुमुत्सुको जज्ञे ॥
सेतुबन्धमिव संसृतिसिन्धोस्तद्रताय मम देहि निदेशम् ।
विनयेन्न हि महोदयलक्ष्मीसंमुखं निजजनं हितकाङ्क्षी ॥ ४४ ॥ हे जामे, तत्कारणात्त्वं मम व्रताय चारित्रग्रहणार्थ निदेशमाज्ञां देहि । कमिव सेतुबन्धमिव पद्याविरचनमिव । लोके 'पाज' इति प्रसिद्धा । कस्य । संसृतिः संसारः स एवागाधत्वात्सिन्धु: समुद्रस्तस्य । हि यस्मात्कारणान्महानुदयोऽत्यैश्वर्यं मोक्षश्च तरू