________________
। सर्गः]. हीरसौभाग्यम् ।
१९९ भवनं प्रति गच्छति । भवानी हि कृष्णभगिनीति कविसम् यः । 'भवानी कृष्णमेनाकवसा' इति हैम्याम् । अम्भोजनाभः अम्बुजनाभः इत्यादयः प्रयोगाः पाण्डवचरित्रे सन्तीति ।। इति विजयदानसूरिपुरो हीरकुमारस्य दीक्षाग्रहणनिश्चयकरणम् ॥
इच्छता हृदि महोदयलक्ष्मीसङ्गतिमिव जैनतपस्याम् ।
भाष्यते स्म भवनं प्रविभूष्यानेन भावयतिना निजजामिः ॥३८॥ अनेन निजजामिः खभगिनी भाष्यते स्म भाषिता वादिता । अनेन किंभूतेन । भा. वेन परिणामेन यतिना साधुना । अथ वा भावे आशये मनति यतित्वं चारित्रमस्येति तेन भावयतिना । किं कृत्वा भाषिता । भवनमर्थाद्भगिनीभवनं प्रकर्षेण विभूष्य शोभां नीत्वा गृहे आगत्येत्यर्थः। अनेन किं कुर्वता। जिनानां तीर्थकृतामियं जैनी तपस्यां दीक्षा. मर्थाद्रहीतुमिच्छता हृदये वाञ्छता । उत्प्रेक्ष्यते-महोदयलक्ष्या मुक्तिश्रिया महाभ्युदयसंपदो वा सङ्गे संगमे मिलने दूतिमिव संदेशहारिकामिव । 'तस्याः वयंवरपरिग्रहदूतिरेषा मुक्तावली हृदिपदं भवतः करोतु' इति चम्पूकथायाम् । 'दूत्यां तिरपि स्मृता' इति शब्दप्रभेदे ॥ .
धारिणीसुत इवाद्य सुधर्मस्वामिनं विजयदानमुनीन्द्रम् ।
वन्दितुं विजयसिंहमहेभ्याम्भोजदृग्गत इतोऽहमभूवम् ॥ ३९ ॥ विजयसिंहनामा यो महेभ्यो व्यवहारी तस्याम्भोजक् प्रियतमे हे जामे अद्याह. मितो भवत्या गृहाद्विजयदाननामानं मुनीन्द्रं सूरिं वन्दितुं नमस्कर्तुं गतोऽभूवम् । क इव । धारिणीसुत इव धारिणीनामा ऋषभव्यवहारिपत्नी तस्याः सुतो जम्बुकुमारः सुधर्मखामिनं श्रीमहावीरपञ्चमगणधरं नन्तुं गतोऽभूत् ॥ . कीलनैकललितं कलयन्ती या कशेव तुरगस्य भवस्य ।
देशनाश्रवणगोचरभावं लम्भिता श्रमणशीतमरीचेः ॥ ४०॥ . हे जामे, श्रमणशीतमरीचेविजयसूरीन्द्रस्य सा परमशान्तरसमयी धर्मकथा मया बद्भाना श्रवणयोः कर्णयोः गोचरभावं विषयतां लम्भिता नीता । श्रुतेत्यर्थः । 'नूनं न मे श्रवणगोचरतां गतोऽसि' इति कल्याणमन्दिरस्तोत्रे । सा का । या धर्मदेशना भ. वस्यं संसारस्य कीलने ताडने अथ वा कीलनायां पराभवविधानविषये । 'बजते हेलि. हयालिकीलनाम्' इति नैषधे । एकमद्वितीयं ललितं विलासं व्यवसायं कलयन्ती बि. भ्रती वर्तते। केव । कशेव । यथा कशा चर्मदण्डः 'चाबखो' इति लोके प्रसिद्धा तुरंगस्याश्वस्य ताडने अद्वैतं व्यापार बिभर्ति ॥
उन्नमज्जलधरादिव जामे सूरिराजवदनादुदयद्भिः ।
वाणिवैभवरसैद्धयमेतत्पूर्यते स्म मम कर्णकलश्योः ॥ ४१ ॥ हे जामे हे विमले, सूरिराजस्य वदनान्मुखादुदयद्भिः प्रकटीभवद्भिः वाणीनां दाचा