________________
१९८
काव्यमाला।
सर्वतः सौधधनधान्यद्विपदचतुष्पदादिभिः परिपूर्यते सा लक्ष्मीसदशा पद्माक्षी तथा सार्वभौमः सर्वस्या भूमेरीश्वरश्चक्रवर्ती तस्य पदवी एताः प्रमुखाः आदिमाः प्रकृष्टा वा येषु तादृशानि तस्य सुरद्रोदलानि पत्राणि सन्ति । तथा सुराणामुपलक्षणादिन्द्रादीनां वैभवानां संपदा लम्भः प्राप्तिः सा तस्य सुमानि पुष्पाणि । 'प्रसूनं कुसुमं सुमम्' इति हैम्याम् । तथा कीर्तयः सुरासुरनरखेचर किंनरमिथुनगीयमानयशांसि अपि पुनरस्यायमदसीयः परिमल: आमोदः सौरभम् । तथा सिद्धयो लघिमा, वशिता, ईशत्वम्, प्रा. काम्यम् , अणिमा, महिमा, यत्र कामावसायित्वम् , प्राप्तिः, इत्यष्टौ अन्या अपि मत्रत.
विद्यातपःशक्तिप्रमुखाः सिद्धय एव मुग्धमृगदृशो रम्याङ्गना । अथ वा सिद्धिर्म क्तिरेव प्रधानवधूस्वाभिस्तया वा सार्धमालिङ्गनानि परिरम्भणानि भासादनानि वेषामारम्भाः प्रक्रमास्तानि पुनरस्य कल्पद्रोः फलानि वर्तन्ते ॥
धर्म एव मनुजैरिह मन्त्रः सार्वकामिक इवैष निषेव्यः। . .
येन वाङ्मनसपारगतं यत्तत्करोति करसात्तरसासौ ॥ ३५ ॥ . इह जन्मनि मनुजैर्मानवैरेष पूर्वव्यावर्णितखरूपः धर्म एव निषेव्यः सेवनीयः मा. राध्यः । क इव । मन्त्र इव । यथा कैश्चित्पुभिर्विनर्यादिना प्रसन्नीभवद्गुरुप्रदत्तः स. र्वान् समस्तान् कामान्मनोभिलषितान् करोति पूरयतीति सार्वकामिको मन्त्री निषे. व्यते सम्यगुपासनागोचरीक्रियते । येन कारणेनासौ धर्मो यद्वस्तु वायनसयोः पारगतं वचनमनसोर्गोचरातीतं यत्र पदार्थे वाचो मनसश्च गोचरो न भवति तदपि वस्तु तरसा शीघ्रं करसात्करप्राप्तं करोति । 'का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं यत्र । वाड्यनसयोरविषये विधी च चिन्तान्तरं किमिह ॥' इति चम्पूकथायाम् ॥ इति कुमारमुद्दिश्य गुरुवाक्यम् ॥
तां निपीय मुनिवासववाचं स्मेरदृक्प्रबुबुधे स कुमारः ।
कैरवोत्कर इव स्मितकोशश्चन्द्रिका कुमुदिनीरमणस्य ॥ ३६ ॥ स कुमारः प्रवुबुधे प्रतिवुद्धः । किंभूतः । स्मेरदृक् हर्षेण हसितनयनः । तो पू. वोक्को मुनिवासवस्य सूरीन्द्रस्य वाचं वाणी निपीय सादरं श्रुत्वा पीत्वा । क इव । करवोत्कर इव । यथा कुमुदिनीरमणस्य विधोश्चन्द्रिका ज्योत्स्ना निपीय कुमुदप्रकरः प्रबुध्यते विकाशं लभते । किंभूतः । स्मिता विकसिताः कोशाः कुङ्मला यस्य ॥
निश्चिकाय विनयानतकायस्तत्पुरः शिशुशशी स्वतपस्याम् ।
शंभुसुध्रुव इवाम्बुजनाभः प्रत्यगाच भवनं निजजामेः ॥ ३७॥ शिशुशशी कुमारचन्द्रः तस्य सुरेः पुरोऽप्रे खस्यात्मनस्तपस्यां दीक्षाग्रहणं निश्चिकाय अहमवश्यं श्रीमत्पार्श्वे परिव्रजां गृहीष्यामिति निश्चयं कृतवान् । किंभूतः । विनयेन आ सामस्त्येन नतो नम्रीभूतः कायः शरीरं यस्य । च पूनर्निजजामेविमलाया भवनं गृहं प्रत्युजगाम । क इव । अम्बुजनाभ इव । यथा कृष्णः शंभुसुभ्रवः पार्वत्या