________________
५ सर्गः). हीरसौभाग्यम् । यं प्रासूत शिवाहसाधुमघवा सौभाग्यदेवी पुनः
पुत्रं कोविदसिंहसीहविमलान्तेवासिनामनिमम् । तद्ब्राह्मी क्रमसेविदेवविमलव्यावर्णिते हीरयु-. ___ क्सौभाग्याभिधहीरसूरिचरिते सर्गश्चतुर्थोऽभवत् ॥ १४९ ॥ इति श्रीसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि
महाकाव्ये श्रीमन्महावीरदेवपट्टपरम्परावर्णनो नाम चतुर्थः सर्गः ॥ तेन ब्राहया वाग्वादिन्याः क्रमौ सेवते आराधयतीत्येवंशीलेन विशेषेण आसामस्त्येन जन्मादिप्रारम्भं मर्यादीकृत्य वर्णनागोचरीकृते विरचिते हीरसौभाग्यनाम्नि महाकाव्ये श्रीमन्महावीरपट्टपरम्परावर्णनो नाम चतुर्थः सर्गः अभवद्बभूव ॥ इति पण्डितश्रीसीहविमलगणिविरचितायां खोपज्ञहीरसौभाग्यकाव्यवृत्ती श्रीमन्महावीरदेवमारभ्य विजयदानसूरीन्द्रं यावत्पट्टपरम्परा
प्रादुर्भवनो नाम चतुर्थः सर्गः ॥
पञ्चमः सर्गः। आजगाम विहरन्स धरित्र्यां पत्तने विजयदानमुनीन्द्रः ।
राजहंस इव ज(सुतायाः प्रोल्लसत्कमलशालिनि नीरे ॥ १॥ अथ चतुर्थसर्गानन्तरं पञ्चमसर्गप्रारभ्भे स पूर्व व्यावर्णितखरूपो विजयदाननामा • मुनीन्द्रः साधुशको धरित्र्यां गुर्जरदेशविशेषोऽभिधानं तत्र विहरन् ग्रामानुग्रामं विच. रन् सुखं सुखेन विहारं कुर्वन् पत्तने अणहिल्लपाटकाभिधाने पुटभेदने आजगाम आगत्य समवमृतः । किंभूते पत्तने । प्रोल्लसन्ती वृद्धि प्राप्नुवन्ती कमला लक्ष्मीस्तया शालिनि शोभनशीले । तत्पुरुष ह्रखत्वम् । अथ वा प्रकर्षेण निरन्तरतया वासस्थानत्वादुल्लसन्ती हृष्यमाणा कमला श्रीयंत्र तथा शोभनशीले । क इव । राजहंस इव । यथा राजमरालो जडुसुताया गङ्गाया नीरे आगच्छति समायाति । किंभूते नीरे । प्रोल्लसन्ति विजृम्भमाणानि यानि कमलानि तैः शालते इत्येवंशीले शोभाकलिते । 'महानन्दसाराराजमरालायाहते नमः' इति सकलाहत्प्रतिष्टाने ॥
सांप्रतीनयुगजन्तुपवित्रीकर्तुरर्हत इव वतिभर्तुः ।।
आगमं श्रवणगोचरयित्वा नागरा हृदि ननन्दुरमन्दम् ॥ २ ॥ नागराः पत्तनश्राद्धजना हृदि हृदये अमन्दं बहु ननन्दु हृषुः । 'पारेचरणामन्दनन्दबखेन्दुः' इति नैषधे । किं कृत्वा । आगममागमनं श्रवणयोः कर्णयोगोचरयित्वा गोचरं विधाय । श्रुत्वेत्यर्थः । कस्य । व्रतिभतुर्विजयदानसूरेः । उत्प्रेक्ष्यते-सांप्रतीन आधुनिको