________________
काव्यमाला ।
यद्वाचा गलराजमन्त्रिमुकुटो निर्माप्य पाण्मासिकी
मुक्ति सिद्धगिरौ व्यधाद्भरतवद्यात्रां समं यात्रिकैः । पञ्चाक्षी दमितुं च पञ्चविकृतीस्तत्याज यः सर्वदा __ प्राणश्यस्तरणेफेहा इव पुनर्यस्योदये दुर्दशः ॥ १४७ ॥ यस्य श्रीविजयदानसूरेर्वाचा अर्थादुपदेशेन कृत्वा गलराज इति नामा मत्रिषु प्रधानेषु मुकुट: कोटीरः गलराजः । अथ वा 'गलो महतो' इति लोके प्रसिद्धः । स षट्सु मासेषु भवा पाण्मासिकी। षण्मासान् यावदित्यर्थः । मुक्ति 'भुगतउ' इति प्रसिद्धां केनापि कस्यापि पावें शुक्लद्रविणं न मार्गणीयम् अहमेव श्रीमदुक्तं यथेप्सितं द्रव्यं दास्या.. मीत्यधिपस्य प्रोक्त्वां या यात्रिकाणां यात्रा कार्यते सा मुक्तिरिति तां निर्माप्य कारयिः बा सिद्धगिरौ श्रीशत्रुजये भरतवत् ऋषभदेवनन्दनप्रथमचक्रवर्तिसंघपतेराभिरिवं यात्रिकर्यात्रां कर्तुमागतः संघजनैः समं सार्ध यात्रां व्यधाच्चकार । च पुनर्यः सूरिः सर्वदा यावजीवं पञ्चविकृतीस्तत्याज । अहासीजहो । सत्प्रेक्ष्यते-पञ्चानामक्षाणां समा. हारः पञ्चाक्षी पञ्चेन्द्रियाणि तां दमितुं यत्रयितुम् अथवा खवशीकर्तुं किमु । इति गर्भितोत्प्रेक्षा । पुनर्यस्य सूरेरुदये माहात्म्यप्रादुर्भावे समागमनसमये वा दुर्दशः कुपाक्षिकाः प्राणश्यन् पलायिताः । क इव । ग्रहा इव । यथा तरणे नोरुपये प्रहा. उपलक्षणानक्षताराः प्रणश्यन्ति ॥ रत्नानामिव रोहणोऽम्बुरुहिणी प्रेयानिव ज्योतिषां
विन्ध्याद्रिः करिणामिवामरगिरिः स्वर्भूरुहाणामिव । लब्धीनां वसुभूतिनन्दन इवाम्भोधिः सुधानामिव
श्रीमत्सूरिशतक्रतुर्भुवि चिरं जीयाद्गुणानां गृहम् ॥ १४८ ॥ श्रीमन्तो गणलक्ष्मीशालिनः शोभाभाजो वा ये सूरय आचार्यास्तेषु तेषां मध्ये वा अद्वैतेश्वर्यकलितत्वेन शतक्रतुरिन्द्र इव । इन्द्रः श्रीविजयदानसूरि वि पृथिव्यां चिरं गलितावधिकालं जीयाद्विजयताम् । किंभूतः । गुणानां शमदमादीनां गृहं वास: वेश्म । क इव । रोहण इव । यथा रोहणो रत्नाचलो रत्नानां मणीनां गृहम् । 'ये रत्नाचलवा. सिनो हि पुरुषास्तेषां न.रत्नोद्यमः' इत्युक्तेः । पुनः क इव । अम्बुरुहिणीनां प्रेयानिव यथा कमलिनीनां भर्ता भानुज्योतिषां किरणानां गृहम् । पुनः क इव । विन्ध्याद्रिरिव । यथा विन्ध्याचल: करिणां गजानां गृहं स्थानम् । पुनः क इव । अमरगिरिरिव । यथा देवानां पर्वतो मेरुः खर्भूरुहाणां कल्पवृक्षाणां स्थानम् । पुनः क इव । वसुभूतिनन्दन इव । यथा वसुभूतिनानो ब्राह्मणस्य पुत्रः श्रीगौतमखामी लम्धीनामक्षीणमहानसीप्रसुखाणां तपःसिद्धिविशेषाणां स्थानम् । पुनः क इव । अम्भोधिरिव । यथा समुदः सुधानां समुद्रमध्योत्पन्नत्वेन पीयूषाणां स्थानम् ॥