________________
४ सर्गः] हीरसौभाग्यम् ।
१८७ विजयदानमुमुक्षुपुरंदरः पदममुष्य ततः समभूषयत् ।
उदयभूमिभृतः शिखरं शरद्विशददीप्तिरिवाम्बरकेतनः ॥ १४४ ॥ ___ ततोऽनन्तरं विजयदाननामा मुमुक्षूणां श्रमणानां मध्ये पुरंदर इन्द्रः अमुष्य श्रीआनन्दविमलसूरेः पदं पटं समभूषयत्सम्यक् प्रकारेणालंकरोति स्म । क इव । अम्बरकेतन इव । यथा भाखानुदयाचलस्य शृङ्गं शिखरं भूषयति । 'गगनाध्वजाध्वगा' इति हैम्याम् । पर्यायपरिवर्तनात् । अम्बरकेतनः किंभूतः । शरदा मेघापगमेन वि. शदा निर्मला जलधररोधाभावादतिदीप्ता दीप्तिः कान्तिर्यस्य ॥
आज्ञां यस्य विधाय मूर्धनि मुदा शीर्षामिवाप्तप्रभोः
सौराष्टेषु जगर्षिनामविबुधाधीशा विहारैनिजैः । लुम्पाकान्परिवर्तमारुतं इव प्रोन्मूल्य मूलाद्रुमा
न्सम्यक्त्वाख्यकृषि सुखं कुलवती चक्रे नभोम्भोदवत् ॥१४॥ जगर्षिनामानः जग उऋषिरिति नामाभिधानं येषां तादृशा विवुधाधीशाः पण्डितमण्डलाखण्डलाः सौराष्ट्रेषु सम्यक्त्वमित्याख्या नाम यस्यास्तादृशीं कृषि कर्षणं सुखं निरु. पद्रवं यथा स्यात्तथा फलवतीं सफलां चक्रे । करोति स्म । क इव । नभोम्भोद इव । यथा श्रावणमेघः कृषि कर्षणं विशेषात्पष्टिक्यव्रीहिजातिसफलां कुरुते । किं कृत्वा । लुम्पाकान् ‘लूका' इत्यभिधानान् कुपाक्षिकान् मूलात्पादादारभ्य प्रोन्मूल्य मूलादुन्मूलयित्वा । कानिव । द्रुमानिव । यथा परिवर्तस्य कल्पान्तकालस्य मारुत: पवन: तरून् मूलाधादुन्मूलयति । स्थानकात् कृष्ट्वा बहिः क्षिपति । कैः । निजैरात्मीयविहारविचरणैः। पवनोऽपि स्वप्रचाररंहोभिः द्रुमाणां क्षुद्रतरूणां तृणानामुन्मूलनेन ससार । अथ वा 'नींदण' इति लोकप्रसिद्धेन कृत्वा कृषिः सफला स्यात् । विहाराः । किं कृला। यस्य श्री. विजयदानसूरेः आज्ञामादेशं मुदा हर्षेण मूधनि खमस्तके विधाय कृत्वा । कामिव । शीर्षामिव । यथा आप्तप्रभोरर्हद्भाधारकस्य आप्तस्तीर्थकरः स चासी प्रभुश्च खामी भु. वनाधीशस्तस्य शीर्षी 'शेषा' इति प्रसिद्ध कश्चिद्भाग्यवान् लब्ध्वा मौलौ धत्ते ॥
प्राबोधयदुःशकनैकतीव्रतपोमिहाप्तोक्तिकृतोक्तियुक्तिभिः । स तत्र लुम्पाकजनं यतीन्द्रो भाखानिवाम्भोजवनं मरीचिभिः ॥१४६॥ स यतीन्द्रो जगर्षिप्रज्ञांसस्तत्र सौराष्ट्रमण्डले लुम्पाकजनं लुकामतभावितलोकं प्रायोधयत् बोधयति स्म । काभिः । आप्नोक्तिः सिद्धान्तस्तेन कृता निर्मिता या उक्तीनां युक्तयस्ताभिः । किंभूतः । सतीव्राण्यतिदुष्कराणि चतुर्विधारप्रत्याख्यानरूपपश्वषष्ठसप्ताष्टनवदशायुपवसनरूपाणि तपांसि तान्येव प्रतापस्तेषां वा प्रतापस्तमाविभ्रत्कलयन् । क इव । भावानिव । यथा भानुभान् मरीचिभिः कान्तिभिः कृला अम्भोजवनं कमलकाननं प्रबोधयति विकासयति ॥