________________
१७१
४ सर्गः]
हीरसौभाग्यम् । वाचामधीशः । वागीशो वाक्पती वाग्ग्मी' इति हैम्याम् । 'गीबृहत्योः पतिः' इत्यपि च । वाचम्पतिवान् । पुनः किंभूतः । विबुधैः पण्डितैः सुरैश्च उपास्यः सेन्यः । 'वि. बुधः पण्डिते सुरे' इत्यनेकार्थः ॥ इति श्रीदेवसूरिः ॥
दोपोदयोदीततमःप्रपञ्चव्यापादनव्यापृतिदीक्षितेन । श्रीसर्वदेवेन पदं तदीयमदीपि दीपेन यथा निकेतम् ॥ १०१ ॥ श्रीगवे देवेन तदीय देवमूरिसंवन्धिपदमदीपि उद्दयोतितम् । केनेव । दीपेनेव । अत्र यथा इवार्थे । यथा कजलध्वजेन निकेतं मन्दिरं दीप्यते । किंभूतेन सर्वदेवेन दि. पेन च । दोषाणामपगुणानां निशानां च उदयेनाविर्भावेन उदीतानि समेत्य स्थितानि अ. थवा दोषाणां संभवेन प्रकटीभूतानि यानि तमांसि पापानि अन्धकाराणि च तेषां प्रपत्रो विस्तारः तस्य व्यापादनं तदेव व्यापृतिर्व्यापारस्तत्र दीक्षितेन गृहीतव्रतेन । सजेनेत्यर्थः । 'उदीतमातङ्कितवानशङ्कत' इति नैषधे। 'संकेतनिकेतमाप्ता' इत्यपि तत्रैव । ई गत्यर्थधातुः ॥ इति द्वितीयश्रीसर्वदेवमूरिः ॥
श्रीमद्यशोभद्रगणावनीन्द्रः श्रीनेमिचन्द्रतिपुङ्गवश्व । तत्पट्टमाकन्दमुभौ भजेते शुकोऽन्यपुष्टश्च यथा विहंगौ ॥ १०२ ॥ उमा सूरीन्द्री तस्य सर्वदेवसूरेः पट एव माकन्दः सहकारस्तं भजेते संश्रयेते। उभी को । एको यशोभदनामा गणावनीन्द्रः गच्छाधिराजः । च पुनः परः श्रीनेमिचन्द्रनामा वतिनां साधूनां मध्ये पुङ्गवः प्रधानो धुरंधरत्वादृषभो वा । यथेत्युपमाने । काविव । विहगाविव । न्यथा उभी विहंगो माकन्दं भजेते । उभौ कौ । एकः शुकः कीरः, अपरोऽन्य पुष्टः कोकिल: ॥ इति यशोभद्रनेमीचन्द्रसूरीन्द्रौ ॥
तयोः पदे श्रीमुनिचन्द्रसुरिरभूत्ततो निर्मितनैकशास्त्रः । शास्त्रे न कुत्रापि तदीयबुद्धिश्वस्खाल वीखेच समीरणस्य ॥ १०३ ॥ ततोऽनन्तरं तयोर्यशोभद्रने मिनन्द्रमुनीन्द्रयोः पदे पट्टे श्रीमुनिचन्द्रसूरीन्दुरभुत् । किंभूतः । निर्मिता नि नानानि कृतानि स्वयं नैकानि बहूनि शास्त्राणि ग्रन्था येन । नवीनग्रन्थनिष्पादनमसाधारणमेधां विना न स्यादत एवोच्यते । तदीया श्रीमुनिचन्द्रमूरिसंबन्धिनी बुद्धि मदिः कुत्रापि कस्मिन्नपि शास्त्रे न चस्खाल न स्खलिता न कुण्ठी. भुता । अस्खलितानुस्यूतशास्त्रव्याख्याने प्रागल्भ्यवतीत्यर्थः । केव । वीवेव । चथा गमीरणस्य पवनस्य वीला गतिः कुत्रापि वनगहनादौ न स्खलति ॥
भूपीष्ठखण्डानिव चक्रवर्ती यतीभवपडिकृतीहौ यः । कदापि काये न दधन्ममत्वं पपी पुनर्यः सकृदारनालम् ॥ १०४ ॥ यः श्रीमुनीन्द्रचन्द्रमूरिः पसंख्याका घृत-तैल-दुग्ध-दधि-पक्वान्न-गुड-नानीर्विकृतीमंदादिविकारकारिणीजही तत्याज । कदाचिदपि न भुनक्ति (भुङ्क्ते) स्मेत्यर्थः ।