________________
१७२
काव्यमाला।
क इव । चक्रवर्तीव । यथा द्वात्रिंशत्सहस्रदेशाधिपतिश्चक्रवतीत्युच्यते । स सार्वभौमः वैताढ्यशैलद्विभागीकृतोत्तरार्धदक्षिणार्थभरतक्षेत्रस्य द्वयोरप्यर्धयोः गङ्गासिन्धुनदीभ्यां त्रिभिर्भागविभक्तत्वात् । एको गङ्गातः प्राच्यां दिशि, द्वितीयो गङ्गासिन्धुमध्यवर्ती, तृतीयः सिन्धुनदीतः पश्चिमायाम् । एवं भूपीठस्य भारतक्षेत्रक्षोणीमण्डलस्य षट् ख. ण्डान् जहाति । किं कुर्वन् । यतीभवन् । संसारोद्विग्नः साध्वाचरामङ्गीकुर्वन् । दीक्षा गृहन्नित्यर्थः । च पुनर्यः सूरिः सकृदेकवारमेवारनालं कानिकं पपी पिबति स्म । किं कु. र्वन् । कदापि कस्मिन्नपि ऐश्वर्यमहन्वानुभवसमयेऽपि काये खशरीरे मम इत्यस्य भावो ममत्वं नैव दधत् ॥ इति श्रीमुनिचन्द्रसूरिः । निर्जीयते स्म कचनापि नायं कृतोपसर्गरपि देववगैः ।। इतीव नामा भुवि विश्रुतेन जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥ १०५ ॥
अस्य मुनिचन्द्रसूरेः पट्टे अजितदेव इति नाना सूरिजज्ञे । उत्प्रेक्ष्यने-इतीव हे... तो वि पृथिव्यां नानाभिधानेन विख्यातेन । इति किम् । यदयं सूरिः कृता विहिता . उपसर्गा विविधमनोवचनकायक्षोभनप्रकारा उपद्रवा यस्तादृशैरपि देववर्गः सुरसाथैः क्वचनापि कुत्रापि काले देशे वा न निर्जीयते स्म नाभिभूत इति हेतोरजितदेव इति नाना आसीत् ॥ इति श्रीअजितदेवसूरिः ॥ जगत्पुनानः सुमनःसवन्तीरयो जटाजूटमिवेन्दुमौलेः । ..
अमुष्य पट्ट विजयादिसिंहो ध्यासांबभूवाथ तपस्विसिंहः ॥ १०६ ॥
अथानन्तरममुष्याजितदेवसूरेः पट्ट विजय इति पदमादी यत्र तादृशः सिंहः एतावता विजयसिंहसूरिः अध्यासांबभूव आश्रयति स्म । किंभूतः । तपखिषु तपःकारकेषु साधुषु वा सिंहः पञ्चाननः । क इव । सुमनःस्रवन्तीरय इव । यथा सुमनसा देवानां स्रवन्ती नदी गङ्गा तस्या रयः प्रवाहः इन्दुमोलेरीश्वरस्य जटाजूटं कपदम् । 'शंभोः कपर्दस्तु जटाजूटः' इति हैम्याम् । श्रयते । विजयसिंहो गङ्गाप्रवाहश्च किं कुर्वाणः । जगद्विश्वं पुनान: पवित्रीकुर्वाण: ॥
सोमप्रभः श्रीमणिरत्नसूरी अमुष्य पढें नयतः स्म लक्ष्मीम् । । इक्ष्वाकुवंशं भरतश्च बाहुबलिस्तनूजाविव नाभिसूनोः ॥ १०७ ॥ अमुष्य विजयसिंहसूरेः पट्टमेकः सोमप्रभनामा अपरो मणिरत्ननामा सूरी आचार्य: लक्ष्मी शोभा नयतः प्रापयंताम् । काविव । तनूजाविव । यथा नाभिनाम्नः सप्तमकुलकरस्य सूनोर्नन्दनस्य श्रीऋषभदेवस्य पुत्रौ । एको भरतचक्री च पुनर्द्वितीयो बाहुबलिद्वौ तनयौ श्रीऋषभदेवस्य बाल्यावस्थायां वंशस्थापनार्थ समेतस्य पुरंदरस्य पाणिस्थितेच. यष्टेरवलोकनात्प्रभोस्तद्वल्लानाभिलाषादिन्द्रेण स्थापितमिक्ष्वाकुवंशं भूषां नयतः ॥ इति सोमप्रभमणिरत्नसूरीन्द्रौ।